________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'कण्ठीरवाकृतेः' कण्ठीरवः सिंहः तस्येव आकृति: यस्य तस्य । 'तस्य' शालिभद्रस्य । 'रेखात्रयाङ्कितः' रेखाणां त्रयं तेन अङ्कितः । कण्ठः । 'तत्र' कण्ठे। 'अहो' आदरे । 'अनवद्यत्रैविद्यन्यासं' अनवद्यं निष्पापं विद्यं तर्कलक्षणसाहित्यरूपाया: त्रिविद्यायाः इदं त्रैविद्यं तस्य न्यासः स्थापना तम् । 'प्रादुष्करोति' प्रकटीकरोति ॥ १०० ।।
यत्नात् षोडश रत्नानि, द्विधा वेधा विभिद्य किम् । द्वात्रिंशद्दशनी तस्य, निर्ममे निर्मला समाम् ।। १०१॥
'वेधाः' ब्रह्मा । षोडश रत्नानि । 'यत्नात्' यत्नपूर्वकम् । 'द्विधा' द्विभागेन । 'विभिद्य' भेदं कृत्वा । तस्य शाले. किं समां समानाम् । निर्मलां उज्ज्वलाम् । द्वात्रिंशद्दशनी द्वात्रिंशद्दन्ताः 'निर्ममे' विहितवान् ? || १०१ ॥
यौवनानङ्गयोर्योग्यौ, स्वर्णपीठस्फुराविव । कपोलौ कल्पयामास, वृत्तौ मध्योन्नतौ विधिः ॥ १०२ ॥
'यौवनाऽनङ्गयोः' यौवनं तारुण्यं अनङ्गः कामः तयोः । 'योग्यौ' उचितौ । स्वर्णपीठस्फुराविव' कनकासनफलकाविव । 'वृत्तौ' वर्तुलाकारौ । 'मध्योन्नतौ' मध्यभागे उन्नतौ उच्चौ । कपोलौ । 'विधिः' ब्रह्मा । 'कल्पयामास' रचयामास ॥ १०२ ॥
उपमाद्रव्यकोटीषु, कोटिं प्राप्ति तदानने । नासावंशध्वजो रेजे, भ्रमद्भूवैजयन्तिकः ॥ १०३ ॥
'उपमाद्रव्यकोटीषु' उपमायोग्यद्रव्याणां कोटीषु । 'कोटि प्राप्ते' प्रकर्षं प्राप्ते । 'तदानने' शालिभद्रमुखे । 'भ्रमद्भूवैजयन्तिकः' चलद्रूपताकः । 'नासावंशध्वजः' नासिकादण्डध्वजः । 'रेजे' अशोभत ॥ १०३ ।।
स्वश्रीकाभ्यां तदक्षिभ्यां, वनवासि तपस्वि च । स्पर्धतामुत्पलं राज-वशोन्मेषनिमेषि किम् ? ॥ १०४ ॥ 'स्वश्रीकाभ्यां' स्वेनैव आत्मनैव श्री: ययो: तौ ताभ्याम् । 'तदक्षिभ्यां' शालिभद्रनयनाभ्याम् । 'वनवासि' वने
828282828282828282828282828288888
॥८२॥