________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तस्य' शाले: । 'हारहंसावलिश्रिते' हारा: एव हंसाः तेषां आवलिभिः श्रिते । 'कान्तिहदे' प्रभासरोवरे । 'देहे' शरीरे। 'दक्षिणावर्ता' दक्षिणा: आवर्ताः यस्याः सा । गम्भीरा । नाभिः । 'कुम्भिनी' हस्तिनीतुल्या । 'भाति स्म' राजते स्म ॥ ९६॥
विशालतां हृदस्तस्य, सकला: कलयन्ति के । यत्प्राप श्रीसरस्वत्योः, प्रियमेलकतीर्थताम् ॥ ९७ ॥
'तस्य' शाले: । 'हृदः' हृदयस्य । के सकला: कलाभिः सहिताः समस्ता: वा जनाः । विशालताम् । 'कलयन्ति' जानन्ति ? 'यत्' हृदयम् । 'श्री-सरस्वत्योः ' लक्ष्मी-भारत्योः । प्रियमेलकतीर्थताम् । 'प्राप' प्राप्तवत् ॥ ९७ ॥
चिरं विरेजतुस्तस्य, भुजावाजानुयायिनौ । हृद्वासिदानदन्तीन्द्र-दन्ताविव सकङ्कणौ ॥ ९८ ॥
'तस्य' शाले: । 'आजानुयायिनौ' जानुप्रमाणौ । 'सकङ्कणौ' कङ्कणान्वितौ । 'हद्वासिदानदन्तीन्द्रदन्ताविव' हृदि वासी हद्वासी दानदन्तीन्द्रः मदजलयुक्तगजराजः तस्य दन्तौ इव । 'भुजौ' बाहू । चिरम् । 'विरेजतुः' शोभेते स्म ॥ ९८॥
नाम्भोधेः किन्तु कल्पद्रोः प्रवालानि निदानताम् । ईयुस्तत्करयोस्तेन, पाटलौ दायकौ च तौ ॥ ९९ ॥
'अम्भोधेः' समुद्रस्य । 'प्रवालानि' विद्रुमाः । न । किन्तु । 'कल्पद्रोः' कल्पवृक्षस्य । प्रवालानि किसलयानि । 'तत्करयोः' शालिभद्रहस्तयोः । 'निदानतां' कारणताम् । 'ईयुः' गतवन्तः । 'तेन' तस्मात् । 'तौ' शालिहस्तौ । 'पाटलौ' रक्तौ । 'दायको' दातारौ । चः समुच्चये । स्तः । समुद्रः खलु कृपणः, कल्पवृक्षश्च दाता, तेन कारणेन कल्पवृक्षप्रवाल निर्मितौ तस्य करौ ॥ ९९ ॥
रेखात्रयाङ्कितस्तस्य, कण्ठः कण्ठीरवाकृतेः । तत्रानवद्यत्रैविद्य-न्यासं प्रादुष्करोत्यहो ॥ १०० ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥८१॥