________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
सुवर्णकेतकी। 'आत्मानं' स्वम् । 'गोपायितुमिव' रक्षितुमिव । कण्टकैः । 'वृति' 'वाड' इति भाषायाम् । 'विधत्ते' करोति ॥ ९२ ॥
तदंह्रिवादतः पद्मं, शङ्के पङ्केऽक्षिपद्विधिः । लक्ष्मीपुष्पैरिव नखैर्जित्वरौ तावपूपुजत् ॥ ९३ ॥
'विधिः' ब्रह्मा । 'तदंहिवादतः' शालिचरणस्पर्धया । 'पद्मं' कमलम् । 'पङ्के' कर्दमे । 'अक्षिपत्' क्षिप्तवान् । अतः । 'जित्वरौ' जेतारौ । 'तौ' पदौ । 'विधिः' ब्रह्मा । 'लक्ष्मीपुष्पैरिव' पद्मरागमणिभिरिख । नखैः । 'अपूपुजत्' पूजयति स्म । इति शङ्के मन्ये । अयं भावः-शालिचरणस्पर्धया पराजितं पद्मं ब्रह्मा पङ्के क्षिप्तवान्, विजयिनौ शालिचरणौ च नखमिषात् पद्मरागमणिभिः पूजितवान् ॥ ९३ ॥
प्रव्यक्तनखरत्नौघं, निर्भयं तत्पदद्वयम् । सभयं जलदुर्गेऽस्थात्, पद्मं गुप्तवराटकम् ॥ ९४ ॥ _ 'प्रव्यक्तनखरत्नौघं' प्रव्यक्तः प्रकट एव नखरत्नानां ओघः समूह: यस्मिन् तत् । 'तत्पदद्वयं' शालिपादयुगलम् । 'निर्भय' प्रकटत्वात् भयरहितं वर्तते । 'सभयं' भययुक्तम् । 'गुप्तवराटकं' गुप्तबीजकोशम् । 'पद्म' कमलम् । 'जलदुर्गे' जलमेव दुर्ग: वप्रः तस्मिन् । अस्थात् । सभयो हि आश्रयमपेक्षते, न निर्भयः ॥ ९४ ॥
शङ्के शशाङ्करकोः किं, जो आदत्त सोऽनघः । दीन आसीन एवास्ते, तच्चमूरुरनूरुवत् ॥ ९५ ॥
किं सः शालिः । शशाङ्करकोः' चन्द्रमृगस्य । अनघे' अनवद्ये । 'जङ्के' ऊरू । 'आदत्त' गृहीतवान् ? येन । तच्चमूरु:' चन्द्रमृगः । 'अनूरुवत्' पङ्गुवत् । 'दीनः' दैन्ययुक् । 'आसीनः एव' उपविष्टः एव । आस्ते । इति शङ्के मन्ये ॥ ९५ ॥
तस्य कान्तिहृदे देहे, हारहंसावलिश्रिते । गम्भीरा दक्षिणावर्ता, नाभि ति स्म कुम्भिनी ॥ ९६ ॥
8282828282828282828282828282828282
॥८०॥