________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
हीनवर्णेन तद्वर्णात्, सुवर्णेन स्विकाऽऽहुतिः । तद्वर्णार्थमिवात्यर्थमग्नितीर्थे समर्थ्यते ॥ ८९ ॥ 'तद्वर्णात्' शालिशरीरवर्णात् । 'हीनवर्णेन' तुच्छरूपेण । 'सुवर्णेन' कनकेन । 'तद्वर्णार्थमिव' शालिभद्ररूपप्राप्तये इव । ‘अत्यर्थं' अत्यन्तम् । 'अग्नितीर्थे' अग्निरेव तीर्थं तस्मिन् । 'स्विकाऽऽहुति: ' स्विका स्वकीया आहुति: । 'समर्प्यते' दीयते ॥ ८९ ॥
तच्छायाऽऽतङ्कतः शङ्के, साशङ्कं राजचम्पकम् । आस्ते सङ्कुचितं किञ्चिद्, राजनिश्रां न मुञ्चति ॥ ९० ॥
'तच्छायाऽऽतङ्कतः ' शालिभद्रशरीरकान्तेः आतङ्कात् अतिभयात् । 'साशङ्कं' आशङ्कासहितम् । राजचम्पकं किञ्चित् सङ्कुचितं-निमीलितं आस्ते-वर्तते । राजनिश्रां न मुञ्चति । स्वनिष्ठं राजशब्दं न मुञ्चति । अत एव 'राजचम्पकम्' तत् कथ्यते । इत्यहं शङ्के मन्ये ॥ ९० ॥
कल्याणकदली यस्य, कायकान्त्येव दण्डिता । स्वल्पान्तररसा जज्ञे सकृत्तेन फलेग्रहिः ॥ ९१ ॥ 'यस्य' शालेः । 'कायकान्त्या' शरीरप्रभया । 'दण्डिता इव' शिक्षिता इव । 'कल्याणकदली' सुवर्णकदली । 'स्वल्पान्तररसा' अत्यल्पाभ्यन्तररसवती। 'जज्ञे' अजायत । 'तेन' तस्मात् । सकृत् एकवारमेव । 'फलग्रहि:' फलवती भवति ॥ ९१ ॥
प्रभया प्रभया यस्य, तनोः कनककेतकी । गोपायितुमिवात्मानं विधत्ते कण्टकैर्वृतिम् ॥ ९२ ॥ 'यस्य' शालेः । 'तनोः' शरीरस्य 'प्रभया' कान्त्या 'प्रभया' प्रकृष्टं भयं यस्याः सा । 'कनककेतकी'
328
द्वितीयः
प्रक्रमः
॥ ७९ ॥