________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
काकपक्षः शिखण्डक-शिखाण्डकौ' इति हैम्याम् । कथम्भूत: स: ? 'सरङ्गचञ्चुचरणः' लाक्षादिरागैः सरङ्गः रक्तः चञ्चु:रक्तैरण्डः तद्वत् रक्तौ चरणौ यस्य सः । हंसपक्षे-सरङ्गा रक्ता: चञ्चुचरणाः यस्य सः । 'सद्गतिः' शोभना गतिः यस्य सः । 'मधुरस्वरः' प्रियवचनः ॥ ७९ ॥
पुरीषशूकराः केचित्, चापल्यकपयः परे । मायागोमायवः केऽपि, बाला व्याला इवेतरे ॥ ८० ॥ पावित्र्यप्रीतिजात्याश्वः, संलीनाङ्गत्वकच्छपः । स तु सिंह इवौजस्वी, शमवान् शमवानिव ॥ ८१ ॥
'परे' शालिभद्राद् अन्ये । 'केचिद्' बाला: । 'पुरीषशूकराः' पुरीषे विष्ठायां शूकराः । 'केचित् चापल्यकपयः' चापल्ये चञ्चलतायां कपयः वानराः । 'केऽपि मायागोमायवः' मायायां कपटकरणे गोमायुतुल्याः श्रृगालसमाः । केऽपि इतरे परे व्याला: दुष्टश्वापदतुल्याः भवन्ति ।। ८० ॥ 'तु' परन्तु । 'सः' शालिभद्रः । 'पावित्र्यप्रीतिजात्याश्वः' पावित्र्यं शुचित्वं प्रीतिः प्रेम इत्यादिसम्पादने जात्याश्वः जातिमदश्वतुल्यः । 'संलीनाङ्गत्व-कच्छपः' अङ्गसंलीनतायां कच्छप: । सिंहः इव ओजस्वी । 'शमवानिव' मुनिरिख । 'शमवान्' उपशान्तः । अयं बालशालिः नेतरप्राकृतडिम्भसमानः इत्यर्थः ॥ ८१ ॥
पित्रोः पुण्यविवर्तोऽसौ, सौभाग्योपरि मञ्जरी । मज्जेव सुखबीजस्य, जीवितस्यापि जीवितम् ॥ ८२ ॥ उपाध्यायाय शुद्धाय, सार्थेशोऽर्थमिव प्रियम् । तं कलान्तरलाभाय, सर्वसाक्षिकमर्पयत ॥८३ ॥
'पित्रोः' जननीजनकयोः । 'असौ' बालः । 'पुण्यविवर्तः' पुण्यपरिपाकः । 'सौभाग्योपरि मञ्जरी' सौभाग्यसहकारोपरि मञ्जरीसमः । सुखबीजस्य मज्जा इव । बीजे हि मज्जा सारभूता । जीवितस्य अपि जीवितम् । अभूत् ॥ ८२ ॥ 'सार्थेशः' गोभद्रः । 'अर्थमिव प्रियं' धनमिव प्रियम् । 'तं' बालम् । 'शुद्धाय' पवित्राय । धनपक्षे-सज्जनाय । 'उपाध्यायाय' पाठकाय।
ARRARAUAYA8A82828282828282888
॥७६॥