SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 उपेत्य अधीयते यस्मात् सः तस्मै । पक्षे-अधमर्णा, उपाधिना आयो लाभो यस्मात्, उप-समीपे आधिरेवंविध: आयो वा यस्मात् तस्मै उपाध्यायाय । 'कलान्तरलाभाय' अन्यायकलाप्राप्तये । पक्षे-वृद्धि (व्याज) लाभाय । 'सर्व-साक्षिकं' सर्वस्वजनादिसाक्षिकम् । पक्षे-मुख्य-महाजनसाक्षिकम् । अन्यसाक्षिकं हि धनं दीयते । 'अर्पयत्' अर्पितवान् ॥ ८३ ॥ स नम्रीभूय निभृतः, कलाचार्यात् कलाऽमृतम् । पपौ स्थिरोपकाराय, क्षीराम्भोधेरिवाम्बुदः ॥ ८४ ॥ 'क्षीरोम्भोधेरिव' क्षीरसागरादिव । कलाचार्यात् कलाध्यापकात् । 'अम्बुदः इव' मेघ: इव । 'सः' बालशालिभद्रः। 'नभ्रीभूय' विनीतो भूत्वा, मेघोऽपि सागरे नम्रीभूय जलं गृह्णाति इति लौकिकाः । 'निभृतः' मौनपूर्वकम् उपाध्यायसमीपे विवादाऽकरणात् । मेघोऽपि मौनपूर्वकमेव जलं गृह्णाति, शब्दपूर्वकं च प्रायः जलं मुञ्चति । 'स्थिरोपकाराय' अचलोपकाराय। पक्षे-स्थिरा-पृथ्वी तस्याः उपकाराय । 'कलाऽमृतं' कलासुधाम् । पक्षे-कलं मधुरं अमृतं जलम् । 'यादोनिवासोऽमृतम्' इति हैम्यां जलनामसु । 'पपौ' पीतवान् ॥ ८४ ॥ साधुविभक्तिसम्बन्ध-कारकैः शब्दसिद्धिदैः । गुणवृद्धिकृत्कृत्यैः सः, नित्यं जज्ञे सलक्षणः ॥ ८५ ॥ 'सः' बालशालिभद्रः । 'नित्यं' सदा । 'सलक्षणः' सव्याकरण: वैयाकरण: । पक्षे-जैनलक्षणैः सहितः । 'जज्ञे' जातः । कथम् ? 'शब्दसिद्धिदैः' शब्दसिद्धिदातृभिः । जैनाचार्यपक्षे-शब्दात्मकोपदेशतः सिद्धिदैः मुक्तिप्रदैः । 'साधविभक्ति-सम्बन्ध-कारकैः' सुष्ठ विभक्ति सम्बन्धयुक्तैः कादिषट्कारकैः पक्षे-साधूनां मुनीनां विभक्तिः विशेषेण भक्तिः सम्बन्धः-समागमः तयोः कारकैः विधायकैः जैनाचार्यैः । 'गुणवृद्धिकृत्कृत्यैः' गुणवृद्धिकारिभिः कृत्यप्रत्ययैः । पक्षेगुणानां वृद्धिकरैः कृत्यैः कायः ॥ ८५ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥७७॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy