________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
येषां ते । पक्षे-प्रसरच्शुण्डाग्राः । 'क्रीडयन्ति स्म' खेलयन्ति स्म । यथा कलभकं हस्तिनः हस्तिन्यश्च खेलयन्ति तथा बालं शालिभद्रं सर्वे खेलयन्ति इत्यर्थः ॥ ७६ ॥
काञ्चनाम्भोजयोस्तस्य, पदो: कनकघुघुराः । तदीयरेणुपिङ्गाङ्गा, रेणु ङ्गा इवानिशम् ॥ ७७ ॥
'तस्य' शालिभद्रस्य । 'कनकाम्भोजयोः' सुवर्णकमलसमयोः । ‘पदोः' पादयोः । 'कनकघुघुराः' सुवर्णधुर्घराः । 'घुधरा' इति भाषायाम् । 'तदीयरेणुपिङ्गाङ्गाः' तदीयरेणुभिः चरणकमलरेणुभि: पिङ्गाङ्गाः पीतावयवाः । 'भृङ्गाः इव' भ्रमराः इव । 'अनिशं' अजस्रम् । 'रेणुः' रणत्कारं चक्रुः । शालिभद्रस्य शिशोः चरणकमलयोः सुवर्णघुघुराः भ्रमरा: इव रणत्कारं कुर्वन्ति स्म इत्यर्थः ॥ ७७ ।।
प्रालम्बिका प्रलम्बाऽस्य, बभौ कण्ठावलम्बिता । वयसः प्रथमस्येव, केलिदोला चलाचला ॥ ७८ ॥
'अस्य' बालशालिभद्रस्य । 'कण्ठावलम्बिता' कण्ठस्थिता । 'प्रलम्बा' प्रकृष्टेन लम्बमाना । 'प्रालम्बिका' हारविशेषः। 'प्रशमस्य वयसः' शिशुत्वस्य । 'चलाचला' चला चपला । 'चराचर-चलाचल ।४।१।१३।। इति सूत्रेण निपातः । 'केलिदोला इव' केल्या: क्रीडाया: दोला हिण्डोलक: इव । 'बभौ' भाति स्म । शिशुशालिभद्रकण्ठस्थितः प्रालम्बिकाहार: चलत्वं गच्छन् क्रीडाहिण्डोलको भवतीत्यर्थः ।। ७८ ॥
सरङ्गचञ्चुचरणः, सद्गतिर्मधुरस्वरः । बलक्षपक्षपक्षीव, काकपक्षधरोऽप्यभूत् ॥ ७९ ॥
'काकपक्षधरोऽपि' स बाल: 'बलक्षपक्षपक्षीव' वलक्षौ श्वेतौ पक्षौ यस्य सः वलक्षपक्षः हंसः राजहंसपक्षीव । अभूत्। अत्र विरोधपरिहाराय 'काकपक्षधरः' इति पदस्य बाल-शिखाधारकः इत्यर्थः कार्य: । 'सा (शिखा) बालानां
satasa8RSR88RSONASRSASASASRSANASNA
॥७५ ॥