________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'रिङ्खणं' स्खलनं, स्खल्यते हि लघुशिशुश्चलने । 'क्रमणं' गमनम् । किञ्च । 'जेमनं' भोजनम् । 'पिण्डवर्धनं' पिण्डेन कवलेन वर्धनम् । 'जल्प' संलापः । 'चेलोपनयनं' वस्त्रपरिधानम् । 'वत्सरग्रन्थिबन्धनं' 'वर्षगांठ उजववी' इति भाषायाम् । इत्थं अन्यानि अपि लोकप्रसिद्धानि । 'कृत्यानि' कार्याणि । 'पिता' गोभद्रः । कारयामास । 'हि:' यस्मात् । 'श्रीः' लक्ष्मीः । एवं फलेग्रहिः फलं गृह्णातीत्येवंशीला । रजः फलेमलाद् ग्रहः | ५ | १|१८|| इति इ: । सफला भवतीत्यर्थः ॥ ७३ ॥ ७४ ॥
स भूरिसम्भृतावापः, शोणहस्तपदच्छदः । रसालः शालिभद्रोऽयं, शालते प्रोल्लसद्विजः ॥ ७५ ॥
सः अयं रसालः आम्रः, रसपूर्णः शालिभद्रः शालते - शोभते । कथम्भूतः सः ? 'भूरिसम्भृतावाप:' भूरिणः सुवर्णस्य सम्भृतः धृतः आवापः कङ्कणं येन सः । 'जाम्बूनदं शातकौम्भं रजतं भूरि भूत्तमम्' इति हैम्याम् । आम्रपक्षेभूरि अत्यन्तं सम्भृतः धृतः आवाप: आलवालः यस्य सः । शोणहस्तपदच्छदः' शोणाः रक्ताः हस्तौ पदौ पादौ छदौ ओष्ठौ यस्य सः । पक्षे शोणानि हस्त-पद-च्छदानि शाखास्कंध - पर्णानि यस्य सः । 'प्रोल्लसद्द्द्विजः ' प्रोल्लसन्तः द्विजाः दन्ताः यस्य सः । पक्षे प्रोल्लसन्तः द्विजाः विहगाः यस्मिन् सः ॥ ७५ ॥
दन्ताबलमलं बालं, पुन्नागा गोत्रजा वशाः । सनीडाः क्रीडयन्ति स्म, प्रसरत्करपुष्कराः ॥ ७६ ॥ 'दन्ताबलं' उद्गतदन्तम् कृष्यादिभ्यो | ७|२|२७|| इति बलच्प्रत्ययः । बलच्यपित्रादेः | ३|२८२॥ इति दीर्घः । हस्तिपक्षेकलभकम् । ‘अलं' समर्थम् । 'बालं' शिशुं शालिभद्रम् । 'गोत्रजाः पुन्नागाः ' गोत्रिणः पुरुषश्रेष्ठाः । हस्तिपक्षे-पर्वतजाः श्रेष्ठहस्तिन: । 'वशाः' नार्यः । पक्षे- हस्तिन्य: । 'सनीडा:' समीपस्था: । 'प्रसरत्करपुष्कराः ' प्रसरन्तौ करपुष्करौ हस्तकमलौ
TRERERY
द्वितीयः
प्रक्रमः
1198 11