________________
श्री शालिभद्र
महाकाव्यम्
गुणसमुदाय: । 'अभ्यस्यतां' अध्ययनं कुर्वताम् । 'श्रुतं' शास्त्रम् । 'धन्यानां' सौभाग्यशालिनाम् । 'श्रीपूर: ' लक्ष्मीप्रवाहः इव । 'सः' शालिभद्रः । क्रमेण वृद्धि प्राप ॥ ७० ॥
व्रतं समितयः पञ्च, नाटकं सन्धिशुद्धयः । तत्त्वप्रवृत्तयः प्राणं, स्मरमिन्द्रियवृत्तयः ॥ ७१ ॥ करणस्थितयो राज्यमिव सर्वार्थसाधकम् । धात्र्यः सर्वोपधाशुद्धाः सकलास्तमलालयन् ॥ ७२ ॥ ( युग्मम् ) 'पञ्च समितयः' ईर्याद्याः' 'व्रतं संयमम् । यथा पालयति इति सर्वत्र द्रष्टव्यम् । सन्धिशुद्धयः' मुख-प्रतिमुखगर्भ-विमर्श-निर्वहणाख्याः पञ्च नाटकविज्ञानानि । नाटकम् । 'तत्त्वप्रवृत्तयः' तत्त्वानां शरीरस्थितानां पृथ्व्यादिपञ्चमहाभूततत्त्वानां प्रवृत्तयः । 'प्राणं' जीवितम् । 'इन्द्रियवृत्तयः' स्पर्शनादिपञ्चेन्द्रियाणां वृत्तयः । 'स्मरं' कामम् ॥ ७१ ॥ 'करणस्थितयः' पुराधिकरणानि पञ्च । राज्यमिव । 'सर्वार्थसाधकं' सकलकार्यविधायकम् विदधति । तद्वत् । 'सर्वोपधाशुद्धाः सर्वाभिः उपधाभिः परीक्षाभिः शुद्धाः । का उपधा ? तत्स्वरूपं चेदं हैमनाममालायाम्-'भिया धर्मार्थकामैश्च परीक्षाया तु सोपधा' भय-धर्मार्थकामोपन्यासेन अमात्यानाम् आशयान्वेषणम् । उपधीयते समीपे ढौक्यते परीक्षार्थमुपधा । यत्कौटिल्य: - उपधाभिः शौचाशौचपरिज्ञानममात्यानाम् । 'सकलाः ' कलाभिः सहिताः समस्ताः वा । 'धात्र्यः ' पञ्च । 'तं' शालिभद्रम् । 'अलालयन्' लालितवत्यः ॥ ७२ ॥
रिङ्खणं क्रमणं किञ्च, जेमनं पिण्डवर्धनम् । जल्पश्चेलोपनयनं, वत्सरग्रन्थिबन्धनम् ॥ ७३ ॥
अन्यान्यपीत्थं कृत्यानि, महेन महता पिता । कारयामास सोल्लासः, श्रीरेवं हि फलेग्रहिः ॥ ७४ ॥
CREDER
REDERER
द्वितीयः
प्रक्रमः
॥ ७३ ॥