________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
पात्रीणसन्मानदानैः' सर्वपात्राणि व्याप्नुवन्ति सर्वपात्रीणानि । 'सर्वादे. ७।१।९४॥ इति ईनः । तेभ्यः सन्मानदानैः । 'उद्यद्ध्वजवजैः' उदगच्छत्पताका-निकरैः । श्रीश्रेणिकनृपादेशात् । 'अलङ्कर्मीणविक्रमैः' अप्रतिहतसामथ्र्यैः ॥ ६६ ॥ 'पुत्रजन्मोत्सवारम्भैः' ईदृशैः पुत्रजन्मनः उत्सवस्य आरम्भैः समारोहै: । 'श्रेष्ठी' गोभद्रः । 'गोष्ठीकृतालकं' गोष्ठं गोकुलम्, यत्र गावस्तिष्ठिन्ति, अगोष्ठा गोष्ठीकृता अलका (धनदनगरी) येन तद् गोष्ठी कृतालकम् । सर्वं राजगृहं पुरं साक्षात् । 'राजगृहं' राजमन्दिरम् । 'चक्रे' कृतवान् ॥ ६७ ॥
सोऽथ चन्द्रार्कमालोक्य, षष्ठीजागरपूर्वकम् । वितेने नामकरणं, सुभगकरणं श्रियाम् ॥ ६८ ॥ मातृस्वप्नानुसारेण, सर्व-स्वजन-साक्षिकम् । शालिभद्र' इति ख्यातं, स्वसूनोरभिधां व्यधात् ॥६९ ॥(युग्मम्)
अथ । 'सः' गोभद्र श्रेष्ठी । 'चन्द्रार्क' चन्द्रः शशी अर्कः सूर्यः तयोः समाहार: चन्द्रार्कम् । 'आलोक्य' दर्शयित्वा । चन्द्रार्कदर्शनं लोकप्रसिद्धः आचारविशेषः । षष्ठीजागरपूर्वकं जन्मतः षष्ठे दने जागरणं क्रियते, तद्दिने विधाता भाग्यलेखं लिखितुमागच्छतीति लौकिका: । "श्रियां' लक्ष्मीणाम् । 'सुभगङ्करणं' असुभगः सुभगः क्रियते अनेन । कृगः खनट ।५।१।१२९॥ इति सूत्रेण सुभगङ्करणम् । 'नामकरणं' नामस्थापनम् । 'वितेने' अकरोत् ॥ ६८ ॥ 'सर्व-स्वजन-साक्षिकं' सर्वेषां स्वजनानां साक्षितया । 'मातृस्वप्नानुसारेण' शालिक्षेत्रस्वप्नानुसारेण । 'स्वसूनोः' निजपुत्रस्य । 'अभिधां' नाम । 'शालिभद्र' इति ख्यातं प्रसिद्धम् । 'व्यधात्' अकरोत् ॥ ६९ ।।
स्नेहः सतां विनीतानां, गुणौघोऽभ्यस्यतां श्रुतम् । श्रीपूर इव धन्यानां, प्राप वृद्धि क्रमेण सः ॥ ७० ॥ 'सतां' सज्जनानाम् । स्नेहः प्रेम । वृद्धि गच्छति इति अग्रेऽपि द्रष्टव्यम् । 'विनीतानां' नम्राणाम् । 'गुणौघः'
satasa8RSR88RSONASRSASASASRSANASNA
॥७२॥