________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
अथ नवसु मासेषु अतिक्रान्तेषु पूर्णेषु । दिनेषु अपि किञ्चिन्न्यूनेषु नवसु । उच्चस्थितेषु ग्रहेषु बुधादिषु ॥ ६२ ।। 'पूर्वेव' प्राची दिग् इव । भद्रा । 'दिवसेश्वरं' सूर्यम् । 'नवसुवर्णाभं' तप्ततपनीयकान्तिम् । सूर्योऽपि उदयकाले तप्तस्वर्णकान्ति: भवति । 'कल्याणकमलोल्लासं' कल्याणकमलानां मङ्गलपङ्कजानां उल्लास: विकासः यस्मात् तम् । सूर्योऽपि कमलानि विकासयति । 'अर्चितं' पूजितम् । सूर्योऽपि प्रातः नमस्कारेण पूज्यते एव । 'सुतं' पुत्रम् । 'असूत' अजीजनत् ॥ ६३ ॥
दीपोत्सवः पुत्रजन्मोत्सवस्यांशो न षोडशः । सदा मङ्गल्यरूपस्य, सन्ततोद्योतदायिनः ॥ ६४ ॥ विचिन्त्येत्यविचिन्त्यश्रीः, सभगम्भावुकस्थितिः । निर्विगीतैः सुसङ्गीतैर्गुप्तिमोक्षसलक्षणैः ॥ ६५ ॥ सर्वपात्रीणसन्मान-दानरुद्यद्ध्वजव्रजैः । श्रीश्रेणिकनृपादेशा-दलङ्कर्मीणविक्रमैः ॥ ६६ ॥ पुत्रजन्मोत्सवारम्भैः श्रेष्ठी गोष्ठीकृतालकम् । चक्रे राजगृहं साक्षात्, सर्वं राजगृहं पुरम् ॥ ६७ ॥
'दीपोत्सवः' दीपावलीमहः । 'पुत्रजन्मोत्सवस्य' पुत्रस्य जन्मना यः उत्सवः क्रियते तस्य । षोडशोऽपि अंश:भागः न अस्ति । कथम्भूतस्य पुत्रजन्मोत्सवस्य ? 'सदा मङ्गल्यरूपस्य' नित्यं कल्याणरूपस्य । 'सन्ततोद्योतदायिनः' अविच्छिन्नप्रकाशप्रदस्य । दीपावलीमहः क्षणिकप्रकाशप्रदः किन्तु पुत्रः सदोद्योतप्रदः मङ्गल्यरूपश्च । तस्मात् कथं दीपावलीमहः पुत्रोत्सवसमः भवेत् ? || ६४ ॥ इति विचिन्त्य विचार्य । 'अविचिन्त्यश्रीः' अकल्प्यलक्ष्मीकः । । 'सुभगम्भावुकस्थितिः' असुभगः सुभग: भवति इति सुभगम्भावुकः तस्य स्थितिः यस्य । नग्न-पलित. ५।१।१२८| इति सूत्रेण च्च्यर्थे खुकञ् । 'निर्विगीतैः' विगीतेन विगानेन निन्दया रहितैः निर्दोषैः 'सुसङ्गीतैः' शोभनानि सङ्गीतानि येषु तैः । 'गुप्तिमोक्षसलक्षणैः' गुप्ति: कारागृहं तस्मात् मोक्ष: बन्दिजनानां मुक्तिः तत्सलक्षणैः तत्सदृशैः । 'सर्व
8282828282828282828282828282828282
॥७१।।