________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'वासस्य' वासनायाः । 'सीमा' अवधिः । 'धातवः' शरीरस्थरुधिरादिसप्तधातवः । वासो हि सप्तधातून् यावद् भवति । 'तु' किन्तु । 'तस्य' शालिभद्रस्य । ते पूर्वाः' सङ्गमभवप्रतिबद्धाः धातवः क्षीणाः । 'नव्येषु' नवीनेषु च धातुषु । 'असम्पूर्णेषु' अनुत्पन्नेषु, अपूर्णे गर्भकाले अपूर्णता भवत्येव शरीरस्य । 'दानवासः' दानवासना दानेच्छा जाता। तद् अद्भुतम् ॥ ५९ ॥
दोहदं सौहृदश्रेष्ठः, श्रेष्ठी विज्ञाय सोऽन्यदा । त्वरया पूरयामास, श्रीमतां हि स्पृहा महः ॥ ६० ॥
'सौहृदश्रेष्ठः' सौहदे स्नेहे श्रेष्ठः प्रकृष्टः । 'सः श्रेष्ठी' गोभद्रः । 'अन्यदा' अन्यस्मिन् दिवसे । 'दोहदं' दानेच्छाम् । 'विज्ञाय' अवगम्य । 'त्वरया' तूर्णम् । 'पूरयामास' पूर्ति कृतवान् । 'हि' यस्मात् । 'श्रीमतां' लक्ष्मीवताम् । 'स्पृहा' वाञ्छ । 'महः' उत्सवः । महानेष उत्सवः यत् महतां श्रीमतां वाञ्छा जायते ॥ ६० ॥
सर्वाङ्गीणैर्दयादानैः, पात्रदानैर्गुणोत्तरैः । प्रववर्षाशु वर्षावद्, भद्रा गोभद्रहर्षदा ॥ ६१ ॥
'सर्वाङ्गीगीणैः' सर्वं अङ्गं व्याप्नुवन्ति इति सर्वाङ्गीणानि तैः । 'सर्वादेः' ७१९४|| इति ईनप्रत्ययः । दयादानैः । 'गुणोत्तरैः' गुणैः उत्तरैः उत्तमैः । पात्रदानैः । 'भद्रा' शालिमाता । 'आशु' क्षिप्रम् । 'वर्षावत्' प्रावृड्वत् । 'प्रववर्ष' प्रकर्षेण वृष्टवती । कीदृशी भद्रा ? 'गोभद्र-हर्षदा' निजपतिगोभद्रमन: प्रमोददात्री । वर्षापक्षे-गौः पृथ्वी धेनुवृषभाश्च तेभ्यो जलवर्षणेन भद्रहर्षों कल्याणानन्दौ ददातीत्येवंशीला ॥ ६१ ॥
शालिभद्रस्य जन्मअतिक्रान्तेषु मासेषु, नवस्वथ दिनेष्वपि । किञ्चिन्न्यूनेषु नवसु, ग्रहेषूच्चस्थितेषु च ॥ ६२ ॥ भद्रा नवसुवर्णाभं, पूर्वेव दिवसेश्वरम् । कल्याणकमलोल्लास-मसूत सुतमर्चितम् ॥ ६३ ॥ (युग्मम्)
828282828282828AURUARAURURURURU
॥ ७० ॥