________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भद्रायाः दानदौ«दम्तैलकन्दाद्यथाऽन्तः स्थादिला स्नेहाविला बहिः । तथाऽस्माद्दानधीकन्दादम्बाऽभूद्दानदोहदा ॥ ५६ ॥
यथा । 'अन्तःस्थात्' मध्यस्थितात् । “तैलकन्दात्' तन्नामकात् रत्नात् । 'इला' पृथ्वी । 'बहिः' उपरिभागे । 'स्नेहाविला' स्नेहसहिता । तथा । 'दान-धी-कन्दात्' दानबुद्धिमूलात् । 'अस्मात्' गर्भस्थशालिभद्रात् । 'अम्बा' भद्रा । 'दान-दोहदा' दानं दातुमनाः । अभूत् ॥ ५६ ॥
सुखेऽपि विबुधाः सद्यः, पूर्वस्नेहं त्यजन्त्यहो । सस्मरे दानमित्रस्य, गर्भदुःखेऽपि तेन तु ॥ ५७ ॥
'अहो' आश्चर्ये । 'सुखेऽपि' सुखसमयेऽपि । 'विबुधाः' देवा: । 'पूर्वस्नेहं' भवान्तरप्रेम । 'सद्यः' सपदि । 'त्यजन्ति' परिहरन्ति । 'तु' परन्तु | 'तेन' शालिभद्रेण । गर्भदुःखेऽपि । 'दानमित्रस्य' दानमेव मित्रं तस्य । अत्र स्मृत्यर्थदयेश: ।।२।११॥ इत्यनेन द्वितीयार्थे षष्ठी । दानमित्रमित्यर्थः । 'सस्मरे' स्मृतम् ॥ ५७ ॥
तस्य दानादर: पश्य, पारदः कटरे स्थितः । चिन्मूषायां गर्भदुःखाग्निना यन्नोदडीयत ॥ ५८ ॥
'कटरे' अहो । 'पश्य' विलोकय । यत् । 'तस्य' शालिभद्रस्य । 'दानादरः पारदः' दानादररूप: पारदः । 'चिन्मूषायां' चैतन्यमूषायां, मूषा सुवर्णद्रवणपात्रविशेष: तत्र । 'स्थितः' अवस्थितः । गर्भदुःखाग्निना गर्भावासदुःखं तदेव अग्निः तेन। 'न उदडीयत' न उड्डीनवान् । उड्डीयते हि पारदः अग्निसम्पर्कात् । अत्र तु गर्भदुःखानलेन दानादर: पारद: न उड्डीन: इति चित्रम् ॥ ५८ ॥
वासस्य धातवः सीमा, पूर्वाः क्षीणास्तु तस्य ते । असम्पूर्णेषु नव्येषु, दानवासस्तदद्भुतम् ॥ ५९ ॥
828282828282828282828282828282828282
॥६९॥