________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सकर्णा' कुशला । 'सा' भद्रा । 'वर्णिनी' महिला । 'पत्युः' स्वामिनः पावें । 'तूर्णं' क्षिप्रम् । 'एत्य' आगत्य । 'कर्णजाहावगाहिनं' कर्णमूलावगाहिनम् । कर्णस्य मूलं कर्णजाहम् । 'कर्णादेर्मूले. ७-१-८८ इति जाहप्रत्ययः । 'तमर्थ' स्वप्नार्थम् । 'अत्यर्थ' अत्यन्तम् । 'वितत्य' विस्तीर्य । 'तेने' कथितवती ।। ५२ ।।
अनूपविपुलाशालिक्षेत्रवत् सौरभाद्भुतम् । गोपीगीतगुणग्राम, सुवयस्यशुकप्रियम् ॥ ५३ ।। परिपाके च माधुर्यधुर्यतावर्यताऽऽस्पदम् । सुतं प्राप्ताऽसि तामेवमभ्यनीनन्ददाशु सः ॥ ५४ ॥
'अनूप-विपुला-शालिक्षेत्रवत्' सजलभूमिस्थशालिक्षेत्रवत् 'अनुपोऽम्बुमान् (देशः)' इति हैम्याम् । (विपुला-पृथ्वी) 'सौरभाद्भुतं' सौरभेण सुगन्धेन पुत्रपक्षे-यश:-सौरभेण अद्भुतं आश्चर्यप्रदम् । 'गोपीगीतगुणग्राम' गोप्य: क्षेत्ररक्षिकाः राज्यश्च, शालिक्षेत्रपक्षे क्षेत्ररक्षिकाः पुत्रपक्षेः राज्यः, ताभिः गीत: गुणग्रामः यस्य सः तम् । 'सुवयस्यशुकप्रियं' समानं शोभनं वा वयः येषां ते सुवयस्याः तरुणाः ते एव शुकाः तेषां प्रियं इष्टम् ॥ ५३ ।। 'परिपाके' परिणामे । चः समुच्चयार्थः । 'माधुर्य-धुर्यता-वर्यतास्पदं' माधुर्यं मधुरता, धुर्यता मुख्यत्वं, वर्यता श्रेष्ठत्वं, तेषां आस्पदं-स्थानम् । शालिषु सुते च इमे गुणा: घटन्ते एव । 'सुतं' पुत्रम् । 'प्राप्ताऽसि' प्राप्स्यसि । एवम् । 'सः' श्रेष्ठी । 'आशु' क्षिप्रम् । 'तां' प्रियाम् । 'अभ्यनीनन्दत्' अभिनन्दितवान् ॥ ५४ ॥
तैलकन्दमहारत्नं, पातालमधुसेवधिम् । सर्वसंहेव तं गर्भ, महनीयमुवाह सा ॥ ५५ ॥
'सर्वसंहेव' पृथ्वी इव । 'तैलकन्दमहारत्नं' तैलकन्दनामा रत्नविशेष: तम् । 'पातालमधुसेवधि' पातालमधु अमृतं तस्य सेवधि निधि वहति तद्वत् । 'सा' भद्रा । 'महनीयं' पूजनीयम् । गर्भम् । 'उवाह' अवहत् ॥ ५५ ॥
ARRARAUAYA8A82828282828282888
॥६८॥