________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ । 'चङ्गः' मनोज्ञः । 'पीवरपुण्यभूः' प्रकृष्ठसुकृतधाम । सङ्गमकस्य जीवः । 'अतन्द्रभद्रदन्तीव' निस्तन्द्रभद्रहस्ती इव । भद्राकुक्षौ । 'अवातरत्' अवतीर्णवान् ॥ ४८ ॥
तुङ्गस्तम्बकरिस्फाति-नम्रशूक-शिखामुखम् । गोपी-गीतोद्धतं राज-शुक-राजि-विराजितम् ॥ ४९ ॥ शालिग्रामादिवायातं, तत्प्रीत्या सा निशात्यये । शालिक्षेत्रं परीपाक-पिशङ्गं स्वप्नमैक्षत ॥ ५० ॥
'तुङ्ग-स्तम्बकरिस्फाति-नम्रशूकशिखामुखं' तुङ्गाः उच्चा: ये स्तम्बकरयो व्रीहयः तेषां स्फात्या वृद्धया नम्राणि शूक-शिखा-मुखानि तीक्ष्णाग्राणि शिखामुखानि यस्य तत् । 'गोपीगीतोद्धतं' गोप्य: क्षेत्ररक्षिकाः स्त्रियः तासां गीते: उद्धतं उत्कटं युक्तम् । 'राजशुकराजिविराजितं' शुकेषु राजानः इव राजशुकाः तेषां राजिः श्रेणि: तया विराजितं शोभितम् ॥ ४९ ॥ 'तत्प्रीत्या इव' सङ्गमभवस्नेहादिव । शालिग्रामात् आयातम् । 'परीपाकपिशङ्ग' परिपाकेन पिशङ्गं पीतम् । शालिक्षेत्रम्। 'निशात्यये' निशायाः अत्यये अन्ते प्रभाते । 'सा' भद्रा । स्वप्नम् । 'ऐक्षत' दृष्टवती ॥ ५० ॥
तुच्छेऽवकरकूटाभे, कुले लब्धोदयः पुरा । रोपितः सुकुले वप्रे, शालिस्तम्बसमो हि सः ॥ ५१ ॥
'पुरा' पूर्वम् । 'अवकरकूटाभे' धूल्यादिकचवरपुञ्जसमे । 'तुच्छे' हीने । 'कुले' गोपकुले । 'लब्धोदयः' मुनिदानात् प्राप्तप्रकर्षः । 'शालिस्तम्बसमः' शालिरोपतुल्यः । हि: निश्चये । 'सः' सङ्गमजीवः । 'सकुले' गोभद्रस्य श्रेष्ठकले । 'वप्रे' केदारे । रोपितः । पुण्यकर्मणा इति अध्याहार्यम् । अन्यस्थाने उप्ता: शालयः किल अन्यकेदारे रोप्यन्ते ॥ ५१ ।।
सकर्णा वर्णिनी तूर्णमेत्य पत्युर्वितत्य सा । तेने तमर्थमत्यर्थं, कर्णजाहावगाहिनम् ॥ ५२ ॥
ARRARAUAYA8A82828282828282888
II EO