________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
स्फटिकाचलसमुज्ज्वलः। 'रत्नैः' वैडूर्याद्यैः । रोहणाचलः । 'आश्रितावस्तुकाष्ठानां' आश्रितानां अवस्तुकाष्ठानां करीदुमादीनाम् । 'वस्तुत्वे' गन्धत्वे। श्रेष्ठिपक्षे-आश्रितानाम्, वस्तूनि पदार्थाः काष्ठा: उपलक्षणात् गृहाणि न सन्ति येषां अवस्तुकाष्ठानाम् अर्थात् दीनादीनां ऋद्धिकरणे । 'मलयाचलः' मलयगिरिसमः । 'सः' गोभद्र श्रेष्ठी अभूत् ॥ ३८ ॥
भ्रान्ति सुमेरुभ्रान्त-स्तेने मित्रकलावताम् । छेकश्चिच्छेद तामेष, पुनः कनकदानतः ॥ ३९ ॥
'अभ्रान्तः' अभ्रे गगने अन्तः यस्य सः अभ्रंकष: । 'सुमेरुः' मेरुपर्वतः । 'मित्र-कलावतां' सूर्य-चन्द्रादीनाम् । 'भ्रान्ति' भ्रमणम् । 'तेने' करोति स्म । 'पुनः' परन्तु । 'छेकः' निपुणः । 'अभ्रान्तः' भ्रान्तिरहितः । 'एषः' गोभद्र श्रेष्ठी। 'मित्र-कलावतां' मित्र-सुवर्णकाराणाम् । 'तां' भ्रान्तिम् । 'कनकदानतः' सुवर्णार्पणात् । 'चिच्छेद' अच्छिनत् ॥ ३९ ॥
सत्त्वेऽपि रत्नकोटीनां, तस्य रत्नत्रयी परम् । आसीददूषणं साधु-कोटीरस्य विभूषणम् ॥ ४० ॥
'रनकोटीनां' रत्नानां कोट्यः तासाम् । 'सत्त्वेऽपि' विद्यमानत्वेऽपि । 'साधुकोटीरस्य' सज्जन-नायकस्य । 'तस्य' । गोभद्रश्रेष्ठिनः । 'रत्नत्रयी' ज्ञान-दर्शन-चारित्रात्मिका । 'परं' उत्तमम् । 'अदूषणं' निष्कलङ्कम् । 'विभूषणं' अलङ्कारः । आसीत् ॥ ४० ॥
मनोवाकायचेष्टासु, धर्मस्तस्यावतिष्ठते । अर्थो वचसि कायेऽपि, कामः काये कदाचन ॥ ४१ ॥
'तस्य' श्रेष्ठिन: । 'मनोवाक्कायचेष्टासु' विचारोच्चाराचारेषु । 'धर्म:' आर्हतः धर्मः । 'अवतिष्ठते' अवस्थानं करोति । 'अर्थः' धनम् । पुनश्चकारार्थः । 'वचसि' वचने । 'कायेऽपि' कदाचित् शरीरेऽपि । 'कामः' मदनः । 'काये' शरीरे कदाचनैव ॥ ४१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥६४॥