________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
| GRERERER
पञ्चाङ्गमन्त्रतत्त्वज्ञः, सभ्यः सम्भावयन्नयम् । राज्ये धर्मे च धौरेयः शुशुभे निर्भयाऽभयः ॥ ३६ ॥ 'चतुरः उपायान्' साम-दान-भेद - दण्डरूपान् चतुर्विधान् उपायान् 'धर्मान्' दान-शील तपो-भावरूपान् । प्रक्रमः 'षड्गुणान्' विग्रह- यानाऽऽसन-द्वेधीभावाऽऽ श्रयरूपान् । 'षड् आवश्यकानि' सामायिकादीनि । 'सप्त अङ्गानि ' स्वाम्यमात्य सुहृत्-कोश-राष्ट्र-दुर्ग-बलरूपाणि । 'सप्त क्षेत्राणि' जिनचैत्यादीनि । 'द्वादश भूपालान्' विजिगीषुः अरिः मित्रं अरिमित्रं मित्रमित्रं अरिशत्रुः पाष्णिग्राहः आक्रन्दः तयोरासारौ कटके मध्यमः उदासीनः इति द्वादश राज्ञः । 'द्वादश व्रतान्' प्राणातिपातादीन् । 'सम्भावयन्' विचारयन् जानन् । 'पञ्चाङ्गमन्त्रतत्त्वज्ञः ' पञ्चपरमेष्ठि- मन्त्रतत्त्ववेदी । राज्यपक्षे - (१) कर्मणामारम्भोपायः (२) पुरुषद्रव्यसम्पत् (३) देशकालविभाग: (४) विनिपातप्रतीकारः (५) कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः विचार: तत्तत्त्ववेदी । 'राज्ये' पृथ्वीराज्ये । 'धर्मे' आत्मराज्ये । चः समुच्चये । 'धौरेयः' अग्रणीः । 'सभ्यः' सभायां योग्यः । 'निर्भयः' निर्भीकः । अयम् अभयः मन्त्री 'शुशुभे शोभते स्म ॥ ३५ ॥ ३६ ॥
गोभद्रः भद्रा च
तत्र धर्मधुरा - भद्रः, सुदानाद् भद्रदन्तिवत् । भूत- भावि भवद्भद्रः, श्रेष्ठी गोभद्र इत्यभूत् ॥ ३७ ॥ कीर्त्या कैलास-सङ्काशः, स रत्नैः रोहणाचलः । आश्रितावस्तुकाष्ठानां, वस्तुत्वे मलयाचलः ॥ ३८ ॥ 'तत्र' राजगृहे । 'धर्मधुरा-भद्रः' धर्मधुरावहने भद्रवृषभ- तुल्यः । 'सुदानात्' शोभनदानात् । हस्तिपक्षे-शोभनमदक्षरणात्। ‘भद्रदन्तिवत्' भद्रजातिहस्तिवत् । 'भूत- भावि - भवद्भद्र: ' भूतभाविभवत्सु अतीताऽनागत- वर्तमानकालेषु भद्रः मङ्गलरूपः । गोभद्रः इति नाम्ना श्रेष्ठी अभूत् ॥ ३७ ॥ 'कीर्त्या' श्वेतकीर्त्या । 'कैलाससङ्काशः '
द्वितीयः
॥ ६३ ॥