________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'यस्याः' चेल्लणायाः । 'भूपशङ्कापङ्कस्थितेरपि' भूपस्य श्रेणिकस्य शङ्कव पङ्कः तस्मिन् स्थितिः अवस्थानं यस्याः तस्याः अपि । 'शीलचन्द्रमणे:' सच्चारित्रचन्द्रकान्तमणिरूपाया: चेल्लणायाः । 'जिनेन्दुवागरुचेः' श्रीवीरजिनचन्द्रवाणीकिरणात् । 'परं ज्योतिः' प्रकृष्टं तेजः । 'व्यजृम्भत' प्रादुर्बभूव । वर्धते हि चन्द्रकान्तमणितेज: चन्द्रकिरणसंसर्गात् । श्रीवीरवचसा निरस्तशङ्कः श्रेणिकः जातः । यदुक्तम्-हहा तपस्वी भविता कथं स, श्रुत्वेति देव्या वचनं सशङ्कः । प्रातजिनेन्दोर्वचनाद् विशङ्कः, श्रीश्रेणिको हृष्टमना बभूव ॥ ३२ ॥
चतुर्बुद्धि चतुःशालं, चतुरा पुण्यकुम्भिनः । कीर्तिकन्याचतुरिका, चतुष्कावसरः श्रियाम् ॥ ३३ ॥ तस्याऽभयकुमाराख्यः, पुत्रो मन्त्रितया बभौ । चिन्तामणिः शिरोरत्नतया सुकृतिनः किल ॥ ३४ ॥
'तस्य' श्रेणिकनृपस्य । 'चतुर्बुद्धिचतुःशालं' चतुर्बुद्धीनां औत्पातिकी-वैनयिकी-कार्मिकी-पारिणामिक्यभिधानाम् । यदुक्कम् उप्पत्तिआ वेणइआ कम्मिआ परिणामिआ | बुद्धी चउव्विहा उत्ता पंचमा नोवलब्भइ । चतुःशालं गृहम् । 'पुण्यकुम्भिनः' सुकृतहस्तिन: । 'चतुरा' हस्तिशाला । 'हस्तिशाला तु चतुरेति' हैम्याम् । 'कीर्तिकन्याचतुरिका' कीर्तिकन्याविवाहे चतुरिका, 'चोरी' इति भाषायाम् । 'श्रियां' लक्ष्मीणाम् । 'चतुष्कावसरः' चतुष्पथसदृशः । 'चौटो' इति भाषायाम् । 'सुकृतिनः' पुण्यशालिनः सुकृतिजनस्य । 'शिरोरत्नतया' मुख्यमणितया । 'चिन्तामणिः' सुरमणिसमः । 'अभयकुमाराख्यः' अभयकुमारः इति आख्या नाम यस्य सः । 'पुत्रः' नन्दनः । 'मन्त्रितया' मन्त्रिस्थाने । 'बभौ' भाति स्म ॥ ३३ ॥ ३४ ॥
उपायाश्चतुरो धर्मान्, गुणानावश्यकानि षट् । अङ्गानि सप्त क्षेत्राणि, भूपालान् द्वादश व्रतान् ॥ ३५ ॥
ARRARAUAYA8A82828282828282888
॥६२॥