________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828282 8282828282828282828282828282
'यः' श्रेणिकः । 'तन्मयः' महावीरमयः । 'तथा' तेन प्रकारेण । 'श्रीवीरविषयं' श्रीमहावीरसम्बन्धि । 'भ्रामरध्यानधारणं' भ्रमसत्कध्यानधारणाम् । इलिका किल भ्रमरीध्यानात् भ्रमरी जायते इति श्रुतिः । यदुक्तं योगसारे "वीतरागं यतो ध्यायन, वीतरागो भवेद् भवी । इलिका भ्रमरी-भीता, ध्यायन्ती भ्रमरी यथा ॥" 'द ' ध्यातवान् । 'येन' यथा । 'सः' श्रेणिकः । 'तागेव' श्रीमहावीरस्वामिसम: एव आगामिन्यामुत्सपिण्यां प्रथमः श्रीपद्मनाभस्तीर्थकृत् भविष्यति ॥ २९ ॥
यस्य सिध्दरसप्रायसम्यग्दर्शनभावितम् । आर राज्यं शिलासारमपि काञ्चनवर्णिकाम् ॥ ३० ॥
'यस्य' श्रेणिकस्य । 'सिद्धरसप्रायसम्यग्दर्शनभावितम्' सिद्धरससमेन सिद्धरसतुल्येन सम्यग्दर्शनेन सम्यक्त्वेन भावितम्। 'शिलासारमपि' लोहतुल्यमपि । 'गिरिसारं शिलासारं तीक्ष्ण-कृष्णामिषे अयः" इति हैम्याम् । 'राज्यं' मगधसाम्राज्यम् । 'काञ्चनवर्णिका' सुवर्णसाम्यम् । 'आर' प्राप्तम् ॥ ३० ॥
प्रिया सुलक्षणा तस्य, पौलोम्या इव लक्षणा । यन्नेत्रतो मृगी चिल्ला, चेल्लणा नामतोऽस्ति सा ॥ ३१॥
'तस्य' श्रेणिकस्य । 'पौलोम्याः इव लक्षणा' पौलोम्याः इन्द्राण्याः इव लक्षणा लक्षणवती । अत्र अभ्रादिभ्यः ७२।४६ ॥ इत्यनेन मत्वर्थीयः अः प्रत्यय: । 'सुलक्षणा' शोभनानि सामुद्रिकलक्षणानि यस्याः सा । 'प्रिया' पत्नी अभवत् । 'येन्नेत्रतः' यस्याः नेत्रत: लोचनत: । 'मृगी' हरिणी । 'चिल्ला' हीनलोचना । 'किन्ननेत्रे चिल्लचुल्लौ' इति हैम्याम् । सा चेल्लणानामतः अस्ति ॥ ३१ ॥
शीलचन्द्रमणेभूप-शङ्कापङ्कस्थितेरपि । जिनेन्दुवारुचेर्यस्याः, परं ज्योतिळजृम्भत ॥ ३२ ॥
ARRARAUAYA8A82828282828282888
॥६१॥