________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
स नृपः ? 'कीर्त्यारोहणनिःश्रेणि-गुणश्रेणिः' कीर्ते: आरोहणे निःश्रेणीभूता ('नीसरणी' इति भाषायाम्) गुणश्रेणि: यस्य सः । 'रञ्जिताष्टादशश्रेणिः' रञ्जिता अष्टादशश्रेणि: येन सः । राज्ञामास्थानश्रेणय: अष्टादश । तच्चेमानि मल्ल-आप्तहित-स्निग्ध-मन्त्रि-अमात्य-महत्तम-बुद्धिसख-उभयसख-आम्नायिक-साङ्ग्रामिक-देशीयपुरुष-मानपुरुष-धन्यपुरुष-कामपुरुषविज्ञानपुरुष-राजपुरुष-विनोद-पात्राणि इति ॥ २६ ॥
भुजे धराधरे तस्य, पुष्करावर्त उन्नतः । धाराधरः कृपाणोऽभूत्, राजहंसप्रवासकः ॥ २७ ॥
'तस्य' श्रेणिकस्य । 'धराधरे' पृथ्वीपालके । मेघपक्षे-पर्वते । 'भुजे' बाहौ । 'उन्नतः' उच्चस्थितः । 'पुष्करावर्तः' पुष्करः असिकोशसत्क: आवर्तः यस्मिन् । पक्षे-पुष्करावर्तनामा श्रेष्ठमेघः । 'धाराधरः' तीक्ष्णधाराभृत् । पक्षे-जलधाराभृत् । 'राजहंसप्रवासकः' शत्रुराजहंसान् वनं प्रवासयन् । पक्षे-राजहंसान् प्रवासयन् । प्रावृषि किल राजहंसा: अन्यत्र प्रतिष्ठन्ते इति कविसमयः । 'कृपाणः' असिः । 'अभूत्' लम्बमाना आसीत् ॥ २७ ।।
स्वबलान्मोहराजस्य, सप्ताङ्गीमिव सप्तकम् । निहत्य सत्यतो वीर-क्रमाराधनमाप यः ॥ २८ ॥
'स्व-बलात्' निजसामर्थ्यात् । राज्य-पक्षे-निजसैन्यात् । मोहराजस्य । 'सप्तक' सम्यक्त्वमिश्रमिथ्यात्वानि अनन्तानुबन्धिनश्चत्वारः कषायाश्चेति सप्तकम् । 'सप्ताङ्गीमिव' राज्यसत्कां सप्ताङ्गीमिव । सप्त किल राज्याङ्गानि । यदुक्तमभिधान चिन्तामणों-'स्वाम्यमात्यसुहत्कोशो राष्ट्रदुर्गबलानि च । 'निहत्य' निकृन्त्य । सत्यतः । 'यः' श्रेणिकः । 'वीरक्रमाराधनं' श्रीमहावीरदेवचरणोपासनाम् । पक्षे-वीरैः शूरैः चरणोपासनाम् । 'आप' लेभे ।। २८ ॥
यस्तथा तन्मयो दधे, भ्रामर-ध्यान-धारणम् । श्रीवीरविषयं येन, तादृगेव भविष्यति ॥ २९ ॥
828282828282828AURUARAURURURURU
II EO11