________________
श्री
शालिभद्र महाकाव्यम्
FRERER
प्रियालानि राजादनानि आप्यन्ते लभ्यन्ते यत्र ते आरामाः । स्त्री पक्षे प्रियः आलापः यासाम् ताः । 'सनारङ्गाः' नारङ्गैः सह वर्तन्ते ये ते । पक्षे सना सदा रङ्गो विलासो यासां ताः । 'पत्रवल्लीविराजिताः' पत्राणि पर्णानि वल्ल्यः लता: ताभिः विराजिताः । पक्षे पत्रवल्ल्यः स्त्रीणां कपोलस्तनादिभागे पत्ररचना: ताभिः विराजिताः ॥ २३ ॥
'पथ्यारम्भाभिरामाः ' पथ्या: हरीतक्यः रम्भाः कदल्यः ताभिः अभिरामा: मनोहराः । पक्षे पथ्याः सुखकरा: रम्भा इव अप्सरा इवाभिरामाः स्त्रियः । चः समुच्चये । 'संवृताः' वृतिसंयुताः (वृति- 'वाड' इति भाषायाम्) पक्षे - सावगुण्ठनाः । 'घुंघटवाळी' इति भाषायाम् । 'पाटलाधराः ' पाटलां वृक्षं धरन्तीत्येवंशीलाः । पक्षे-पाटलः रक्तः अधरः यासां ताः । 'पुण्यपण्यैः परीभोग्याः' पुण्यानि पवित्राणि वस्तूनि तैः भोगार्हाः । पक्षे - पुण्यं सुकृतं तदेव मूल्यं तैः भोक्तुं योग्याः। 'सुकुल्याः' शोभना: कुल्याः कृत्रिमाः सरितः यत्र ते आरामाः । पक्षे- समीचीनकुलोत्पन्नाः । सुकुल्या तु कुलस्त्रियामिति अनेकार्थे । 'हंसविभ्रमा: ' हंसानां विभ्रमो विलासो यत्र । पक्षे हंसवद् गमनं विभ्रमो यासामथवा हंसकः पादकटक: तस्य विभ्रमो विलासो यासाम् ॥ २४ ॥
'यत्र' राजगृहे । 'हर्म्याणि' श्रेष्ठिगृहाणि । 'सतां चरित्राणि इव' सज्जन- जीवनानि इव । 'धर्म्याणि' धर्मसमेतानि । अत्र धर्मपदेन वास्तुधर्माः उच्यन्ते । सतां चरित्र - पक्षे धर्मसहितानि । 'विशालानि' विस्तीर्णानि । पक्षे उदाराणि । 'उज्ज्वलानि' निर्मलानि पक्षे गुणैः शुभ्राणि । 'कोटिप्राप्तपताकानि' कोटिद्रव्य सूचनाय न्यस्ताः पताका: यत्र तानि । पक्षे कोटिं परमां कक्षां प्राप्ताः कीर्तिपताकाः यत्र तानि ।। २५ ।।
|
'तत्पुरं ' राजगृहम् । 'श्रेणिकः' तन्नामा प्रसेनजित्पुत्रः । 'नृपः ' भूपतिः । 'अपालयत्' अन्वशात् । कथम्भूतः
328
द्वितीयः
प्रक्रमः
॥ ५९ ॥