________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
निष्पङ्काकाकाशगङ्गेव, महँगङ्गेव दोषहृत् । निःसन्तापा च पाताल-गङ्गेव विशदाशया ॥ ४२ ॥ चन्द्रक्रीडाचकोरीव, सदाऽऽनन्दविलोचना । सदा सर्वर्तुकाराम-पिकीव प्रियभाषिणी ॥ ४३ ॥ धर्मस्येव मनःशुद्धि-रर्थस्येव नयस्थितिः । मदनस्येव मर्यादा, भद्रा तस्याऽभवत् प्रिया ॥४४॥(विशेषकम्)
'आकाश-गङ्गा इव' सुरसरिदिव । 'निष्पङ्का' कर्दमरहिता निर्मला । 'मर्त्यगङ्गा इव' भूगङ्गा इव । 'दोषहृत्' पापहारिणी। यदुक्तं लौकिकै: 'दृष्टा जन्मकृतं पापं, स्पृष्टा जन्मशतत्रयम् । स्नाता जन्मसहस्रस्य, हरेद् गङ्गा कलौ युगे । 'पातालगङ्गा इव' अधोलोकगङ्गा इव । 'निःसन्तापा' सन्तापरहिता । 'विशदाशया' निर्मलान्त:करणा ॥ ४२ ॥ 'चन्द्रक्रीडाचकोरी इव' चन्द्रः एव क्रीडा यस्याः सा चासौ चकोरी च, तद्वत् । 'सदाऽऽनन्दविलोचना' नित्यानंदनेत्रा । 'सर्वर्तुकारामपिकी इव' सर्वे ऋतवः यस्मिन् स चासौ आरामश्च तत्रस्था पिकी-कोकिला इव । 'सदा' न केवलं वसन्तकाले किन्तु सर्वदा। 'प्रियभाषिणी' मधुरवादिनी ॥ ४३ ॥ धर्मस्य । 'मनःशुद्धिः' चित्तविशुद्धिः इव मुख्या, मनःशुद्धि विना कृतः धर्मः प्रायेण विफलः । यदुक्तम्-"मनःशुद्धिमबिभ्राणा, ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम्" ॥ 'अर्थस्य' धनस्य । 'नयस्थितिः इव' न्यायमार्गः इव । अर्थे किल न्यायसम्पन्नता मुख्या । अन्यायाजितं धनं न वृद्धि गच्छति न च लोकप्रियतां विश्राणयति । यदुक्तम्-"अन्यायोपार्जितं वित्तं, दशवर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे समूलं तद् विनश्यति ॥" 'कामस्य' भोगस्य । 'मर्यादा इव' अवधि: इव । मर्यादाहीन: कामः भोक्तुरेव विनाशाय भवति। यदुक्तम्-'भोगे रोगभयम्' तद्वत् । 'तस्य' श्रेष्ठिनः । 'भद्रा' तन्नामिका । 'प्रिया' पत्नी । अभवत् ॥ ४४ ॥
कार्यहानिमनार्याणां, यच्छतीव मृति रुषाम् । नै:स्व्यं मदानां विश्वेषां, बुद्धिनाशं च दुर्धियाम् ॥ ४५ ॥
ARRARAUAYA8A82828282828282888
॥६५॥