________________
श्री शालिभद्र
महाकाव्यम्
FREREDE
सरांसि यत्र भूयांसि सवयांसीव नीरधेः । यत्पयांसि पयांसीव महांसीवावनिश्रियाम् ॥ १५ ॥ 'यत्र' मगधदेशे । 'भूयांसि' बहूनि । 'सरांसि' जलाशयाः । 'नीरधेः' समुद्रस्य । 'सवयांसीव' मित्राणि इव । 'यत्पयांसि' यत्सरोजलानि । 'पयांसि इव' दुग्धानि इव । 'अवनिश्रियां' धरणीलक्ष्मीणाम् । 'महांसि इव' तेजांसि इव । बभुरिति शेषः ॥ १५ ॥
भुवो विशालशालेयाः, शाक-शाकट-सङ्कटाः । सनाथा रथकट्याभिः पवित्रा यत्र गोत्रया ॥ १६ ॥ 'यत्र' मगधदेशे । 'भुवः' पृथिव्यः । कीदृश्यः ? इत्याह- 'विशालशालेया: ' विशालानि महान्ति शालिक्षेत्राणि सन्ति यत्र । 'वीहि शालेरेयण्' ७-१-८० ॥ इति सूत्रेण एयण् । 'शाक-शाकट-सङ्कटाः' शाकस्य क्षेत्रं शाकशाकटम् । शाकटशाकिनौ क्षेत्रे | ७|१|७८॥ इति सूत्रेण क्षेत्रे शाक- शाकट - शाक-शाकिनौ इति साधुः । शाकक्षेत्रव्याप्ताः इत्यर्थः । पुनः कीदृश्यः ? ‘रथकट्याभिः' रथानां समूहाः रथकट्याः ताभिः । गोरथ० | ६ | २|२४|| इति कट्यल्प्रत्यय । 'सनाथाः' युक्ताः । पुनः कीदृश्यः ? 'गोत्रया' गवां समूहो गोत्रा तया । गोरथ० ६ २ २४ ॥ इत्यल् । 'पवित्राः शुचीभूताः ॥ १६ ॥
,
बद्धमूला लसच्छाखाः, सच्छायाः सुमनः प्रियाः । महाफलोदया यत्र, सज्जना इव पादपाः ॥ १७ ॥
'यत्र' मगधभूमौ । 'पादपा:' वृक्षाः । सज्जनाः इव शोभन्ते । कथं तदित्याह -'बद्धमूला: ' बद्धानि मूलानि येषां ते । सज्जन-पक्षे बद्धं मूलं चिरनिवासः उपलक्षणात् आदिमूलं यैस्ते । 'लसच्छाखाः' लसन्ति शाखा येषां ते । पक्षे - लसन्ति-शोभन्ते पुत्रपौत्रादिरूपाः शाखाः येषां ते । 'सच्छायाः' छायायुक्ताः । पक्षे - छाया-कान्तिः तया सहिताः । 'सुमनः प्रियाः ' सुमनसः पुष्पाणि तैः प्रियाः- हृदयङ्गमाः । पक्षे सुमनसः - विद्वांसः प्रिया येषां ते विद्वत्सु वा प्रियाः ये
7
"
TRERERY
द्वितीय:
प्रक्रमः
॥ ५६ ॥