________________
द्वितीयः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
8282828282828282828282828282828282
शर्म-प्रापणे । 'अलङ्कर्मीणविक्रम' समर्थपराक्रमम् । जिन-चढ्याद्यानां उत्तमानां पुरुषाणां तत्रैव जायमानत्वात् 'अलङ्कर्मीणविक्रमम्' इति मध्यखण्डस्य विशेषणं सार्थकम् ॥ ११ ॥
मगध-राजगृह-वर्णनम्मुक्तोज्ज्वलकणश्रेणी-मण्डलैः क्षोणिकुण्डलैः । आस्ते तत्राऽतिसम्बाधो, मगधाभिधमण्डल: ॥ १२ ॥
'तत्र' मध्यखण्डे । 'मुक्तोज्ज्वलकणश्रेणीमण्डलैः' मुक्ताफलवद् विमलधान्यावलिप्रदेशैः । 'क्षोणिकुण्डलैः' पृथ्वीवलयैः । 'अतिसम्बाधः' अतिसङ्कुल: । 'मगधाभिधमण्डलः' मगधाभिधदेशः । 'आस्ते' वर्तते ॥ १२ ॥
गावो यत्र वशास्थूलाः, सुव्रताः सुवशा इव । न वशाः सूर-चौराणां, न वशा-दोष-दूषिताः ॥ १३ ॥
'यत्र' मगधदेशे । 'गावः' धेनवः । 'वशास्थूलाः' वशया-मेदसा स्थूला:-पीनाः पुष्टाः । 'सुवशाः इव' सुनार्यः | इव । 'सुव्रताः' सुखदोह्याः । नारी-पक्षे-पतिव्रताः । 'न सूर-चौराणां' न शूरवीर-स्तेनानाम् । पक्षे-सूर्यखलानाम् । 'वशा:' वश्या: । 'न वशा-दोष-दूषिताः' न वन्ध्यात्वदोष-दुष्टाः । नारीपक्षेऽपि एवमेव ॥ १३ ॥
दुर्भिक्ष-दुर्ग-भङ्गाय, गोलका इव मूढकाः । हलयश्च बभुर्यत्र, यन्त्र-वाहन-यष्टयः ॥ १४ ॥
'यत्र' मगधदेशे । 'दुर्भिक्ष-दुर्ग-भङ्गाय' दुर्भिक्षः एव दुर्गः वप्रः तस्य भङ्गाय नाशाय । 'मूढकाः' कृषि-साधनविशेषाः । 'गोलका इव' तोपगोलकाः इव । 'बभुः' भ्राजिरे । 'हलयश्च' महान्ति हलानि; यतः महद् हलं हलिरित्युच्यते । 'यन्त्रवाहनयष्टय इव' यन्त्रचालनदण्डा इव । 'बभुः' भ्राजिरे ॥ १४ ॥
828282828282828282828282828288888