________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सञ्चालने । 'गुणाः' सन्धि-विग्रह-यान-आसन-दैधाश्रय-रूपा: षड् गुणा: । 'वादविदां' वादिनाम् । 'वरे' श्रेष्ठे । प्रकृष्टवादिनी इत्यर्थः । 'तर्काः' शिक्षा-कल्प-व्याकरण-छंदो-ज्योति-निरुक्ताख्यानि षट् शास्त्राणि । 'तथा' तत्प्रकारेण । 'अखण्डिते' सम्पूर्णे । 'यत्र' भरतक्षेत्रे । षड् एव । 'खण्डानि' विभागाः । 'रेजुः' अशोभन्त ॥ ७ ॥ ८ ॥
वैताढ्येनोच्चगोत्रेण, नीचधात्रीभवानि वा । त्रीणि त्रीणि पृथक् पङ्क्तौ, विन्यवेश्यन्त तान्यहो ॥ ९ ॥
'उच्चगोत्रेण' उत्तुङ्गपर्वतेन । 'वैत्ताढ्येन' तन्नाम्ना गिरिणा । उच्चगोत्रीयपक्षे-वित्ताढ्येन धनाढ्येन उत्तमकुलीनेन । 'नीचधात्रीभवानि' निम्नपृथ्वीस्थितानि । पक्षे-नीचमातृजनितानि । 'वा' इव, अत्र 'वा' इवार्थे । 'अहो' इति सम्बोधने । तानि त्रीणि त्रीणि खण्डानि 'पृथक्पङ्क्तौ' भिन्नश्रेण्याम् । 'विन्यवेश्यन्त' अस्थाप्यन्त । यथा उच्चगोत्रीयः श्रेष्ठी हीनान् नरान् पृथक्पङ्क्तौ स्थापयति, तथा वैत्ताढ्यपर्वतेन षट्खण्डमध्ये त्रीणि त्रीणि खण्डानि पृथक् स्थापितानीत्यर्थः ॥ ९॥
नृलोक इव लोकेषु, वयस्सु त्रिषु यौवनम् । वर्तमानश्च कालेषु, यथा सर्वार्थसाधकः ॥ १० ॥ तथाऽक्तिनखण्डेषु, मध्यमं खण्डमुत्तमम् । सर्वाङ्गीणसुखप्राप्ता-वलङ्कर्मीणविक्रमम् ॥ ११ ॥
'लोकेषु' स्वर्ग-मर्त्य-पातालाख्येषु त्रिषु लोकेषु । 'नृलोक इव' मर्त्यलोक इव । 'त्रिषु वयस्सु' बाल्य-यौवनवार्धक्याख्येषु वयस्स । 'यौवनं' तारुण्यम् । 'कालेषु' भूत-वर्तमानाऽनागतेषु । चः समुच्चये । वर्तमानः कालः । 'यथा' यत्प्रकारेण । 'सर्वार्थसाधकः' सकल-प्रयोजन-सम्पादकः ॥ १० ॥ 'तथा' तत्प्रकारेण । 'अर्वाक्तनखण्डेषु' दक्षिणविभागेषु । 'मध्यम' मध्यस्थितं खण्डम् । 'उत्तम' प्रधानम् । कीदृशं तदित्याह-'सर्वाङ्गीणसुख-प्राप्तौ' सर्वदेशीय
satasa8RSR88RSONASRSASASASRSANASNA
॥५४