________________
श्री
शालिभद्र महाकाव्यम्
FRERER
हिमवन्त-महाहिमवन्त-निषध- नीलवन्त - रुक्मि- शिखरिणः षड् वर्षधरा: । 'चित्रं' आश्चर्यम् । स जम्बूद्वीप: षड्वर्षधरोऽपि 'सप्तवर्ष:' सप्तानि वर्षाणि क्षेत्राणि यस्मिन् सः । 'प्रकीर्त्यते' प्रोच्यते । अत्र वर्षशब्दः क्षेत्रवाची ॥ ४ ॥ ५ ॥ क्षेत्र देशास्तु चत्वार- स्तस्य तिष्ठन्त्यकर्मठा: । पुत्रा इव त्रयः किन्तु सर्वर्द्धिव्यवसायिनः ॥ ६ ॥ 'तस्य' जम्बूद्वीपस्य । ' चत्वारः क्षेत्रदेशा: ' भरतादिषु सप्तसु हैमवत - हरिवर्ष- रम्यक् हैरण्यवताभिधाः चत्वारः क्षेत्रदेशा: । 'तु' परन्तु । 'अकर्मठा:' कर्मणि तत्पराः कर्मठा:, न तथाविधाः अकर्मठा: । 'किन्तु' परन्तु । 'त्रयः ' भरत - विदेह-ऐरवताख्याः त्रयः । पुत्राः इव' सुताः इव । 'सर्वर्द्धिव्यवसायिनः' सकलसम्पत्तिव्यापारिणः । शेषः । अयं भाव: हैमवतादिचतुर्षु क्षेत्रेषु युगालिकिमनुष्याः एव वसन्ति । न तत्र काचित् धर्माधर्मप्रवृत्तिः । किन्तु भरत - विदेह - ऐरवतेषु अस्ति धर्माधर्मप्रवृत्तिः । अतस्ते सर्वर्द्धिव्यवसायिभिः पुत्रैरुपमिताः ॥ ६ ॥
पारेऽब्धि परमं क्षेत्रं तत्तेषु भरताभिधम् । ऋतवो वत्सरे यद्वद्, रागा गीते मुखा गुहे ॥ ७ ॥ रसा भोज्ये गुणा राज्ये, तर्का वादविदाम्वरे । षडेव यत्र खण्डानि, तथा रेजुरखण्डिते ॥ ८ ॥
'पारेऽब्धि' अब्धेः पारम् । 'पारे - मध्येऽग्रेन्तः ० | ३|१|३०|| इति सूत्रेण पारेब्धि । 'तेषु' क्षेत्रेषु । 'तत् भरताभिधं' भरत इति अभिधा नाम यस्य तत् । 'परमं' प्रधानं क्षेत्रं वर्तते । 'यद्वत्' यथा । 'वत्सरे' वर्षे । 'ऋतवः' वसन्तग्रीष्म-वर्षा शरत्-शिशिर हेमन्ताख्याः षड् ऋतवः । 'गीते' गाने 'रागाः' श्रीरागाद्याः षड् रागाः । ते चेमे-' "श्रीरागोऽथ वसन्तश्च, भैरवः पञ्चमस्तथा । मेघराजश्च विज्ञेयः षष्ठो भट्टनरायणः ॥ " 'गुहे' कार्तिकेये । 'मुखाः' वदनानि षड् । मुखशब्दः पुंलिङ्गेऽपि । 'भोज्ये' भोजने । 'रसा:' मधुराम्ल लवण-कटु-कषाय- तिक्ताः षड् रसाः । 'राज्ये' राज्य
328
द्वितीयः
प्रक्रमः
॥ ५३ ॥