________________
श्री
शालिभद्र महाकाव्यम्
FREREDE
यस्यासौ लक्ष्यते लक्ष - योजनायाममानिनः । सौवर्णो नित्यसज्योति - रचलो लक्षदीपकः ॥ ३ ॥ 'यस्य लक्षयोजनायाममानिनः शतसहस्रयोजनदैर्घ्यप्रमाणवतः जम्बूद्वीपस्य । 'नित्यसज्योतिः' सदा सकान्तिः । असौ । 'सौवर्णः' कनकमय: । 'अचलः' गिरिः, मेरुपर्वतः इत्यर्थः । लक्षदीपकः' लक्षयोजनानि यावत् दीपक:प्रकाशकः शतसहस्रप्रदीपतुल्यो वा । 'लक्ष्यते' विलोक्यते ॥ ३ ॥
सप्तसप्तिरथे सप्तीन्, सुरसप्तौ मुखानि च । ग्रहान् लग्ने स्वरान् गीतेऽङ्गानि राज्ये गजे तथा ॥ ४॥ धातूनङ्गे तथा सप्तक्षेत्राण्यत्र जगुर्जिनाः । स षड्वर्षधरश्चित्रं, सप्तवर्षः प्रकीर्त्यते ॥ ५ ॥
'सप्तसप्तिरथे' सप्तसप्तेः रवेः रथे स्यन्दने । 'सप्तीन्' (सप्त) अश्वान् । रविरथे किल सप्ताश्वाः इति लौकिकाः । सुरसप्तौ सुरस्य देवस्य सप्तौ अश्वे, 'उच्चैःश्रवा:' इत्याख्ये इन्द्राश्वे । 'मुखानि सप्तवदनानि । चः समुच्चये । 'लग्ने' लग्नकुण्डलिकायाम् । 'ग्रहान्' मङ्गल-बुध-गुरु-शुक्र-शनि-राहु-केत्वभिधान् सप्त ग्रहान् । जैनमते सूर्यचन्द्रौ ग्रहेषु न गण्येते । जैनज्योतिषि सूर्य-चन्द्र-ग्रह-नक्षत्र - तारकाख्येषु पञ्चभेदेषु तयोः पृथगभिधानात् । 'गीते' सङ्गीतशास्त्रे । 'स्वरान्' षड्ज - ऋषभ - गान्धार-मध्यम-पञ्चम-धैवत-निषधाभिधान् सप्त स्वरान् । राज्ये 'अङ्गानि' स्वाम्य-मात्य-सुहृत्-कोश-राष्ट्रदुर्ग- बलाभिख्यानि सप्त अङ्गानि । 'तथा' समुच्चये । 'गजे' हस्तिनि । 'अङ्गानि चत्वारः पादाः करो मेढ्रं पुच्छं चेति सप्ताङ्गानि । 'अङ्गे' शरीरे। 'धातून्' रसासृग्मांसमेदोऽस्थि-मज्जा-शुक्राभिधान् सप्त धातून् । 'तथा' तत्प्रकारेण । 'अत्र' जम्बूद्वीपे । 'जिना: ' अर्हन्त: । 'सप्तक्षेत्राणि' भरत हैमवत- हरिवर्ष विदेह रम्यक् हैरण्यवत-ऐरवतनामानि सप्तक्षेत्राणि । 'जगुः ' कथितन्त: । 'सः' जम्बूद्वीप: । 'षड्वर्षधरः' षड् वर्षधराः यस्मिन् सः । पर्वताः वर्षधरा उच्यन्ते । ते चैते
328
द्वितीयः
प्रक्रमः
॥ ५२ ॥