________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ते। 'महाफलोदयाः' महतां-अतुच्छानां फलानां उदयः-प्रादुर्भवनं येषां ते । पक्षे-महाफलानि विवाह-यात्रा-जिनमन्दिरोद्धरणादीनि तेषामुदयो येषां ते ॥ १७ ॥
कण्टकौघश्चतुर्दन्ती, नायिकायाः प्रधानता । खलानां सत्कृतिर्यत्र, बहिरेव जने नहि ॥ १८ ॥ यत्र दानमकालेऽपि, न मृत्युः सत्यशालिनाम् । कालेऽपि वृष्टिरेव स्यान्न कोपस्तु विवेकिनाम् ॥ १९ ॥
'यत्र' मगधदेशे । 'कण्टकौघः' कण्टकानां खुण्टानां ओघः समूहः, शूलानां समूहश्च । 'चतुर्दन्ती' दन्ताली खलसाधन-विशेषः कलहश्च । 'नायिकायाः' धान्यवपनसाधनस्य । 'प्रधानता' प्रकृष्टेन धारणा, स्त्रियाः प्रधानता च । 'खलानां' धान्यशोधन-स्थानानाम् । 'सत्कृतिः' सम्यक्करणम् । दुर्जनसत्कारश्च । इत्यादीनि बहिरेव । 'न जने' न पुरे ॥ १८ ॥ यत्र । 'अकालेऽपि' अनवसेरपि । 'दानं' वितरणम् भवति, किन्तु 'सत्यशालिनां' सत्याधिष्ठितानाम् अकाले न मृत्युः भवति । अनेन राज्ञः न्यायप्रियत्वमुक्तम् । 'कालेऽपि' प्रावट्कालेऽपि । 'वृष्टिरेव' मेघवर्षणमेव । किन्तु । 'विवेकिनां' सत्यासत्यज्ञानानाम् । 'कालेऽपि' तथाविधाऽवसरेऽपि 'न कोप:' न क्रोधः । प्रादुर्भवतीति शेषः ॥ १९ ॥
तत्र काञ्चन-सोपान-भद्रपीठ-प्रतिष्ठितम् । सौवर्ण-कलस-ज्योति-र्माला-मुकुट-मण्डितम् ॥ २० ॥ उद्धृत-केतकी-रेणु-धूप-धूम्याभ्रम-च्छलात् । उत्तुङ्ग-गङ्गा-यमुना-च्छत्राभ्यामिव राजितम् ॥ २१ ॥ ध्वजाञ्चल चलच्चारु-चामरालीमनोहरम् । पुरेषु राजराजश्रि, रेजे राजगृहं पुरम् ॥ २२ ॥
'तत्र' मगधदेशे । 'पुरेषु' नगरेषु । 'राजराजश्रि' राजराज:-राजाधिराजः तद्वत् श्रीः यस्य तत् । राजगृहम् । 'पुरं' नगरम् । 'रेजे' शोभते स्म । तच्च कीदृशम् ? 'काञ्चन-सोपान-भद्रपीठ-प्रतिष्ठितम्' काञ्चनानि सौवर्णानि सोपानानि
satasa8RSR88RSONASRSASASASRSANASNA
॥५७