________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'न सहिष्यते' न तितिक्षिष्यते । स: 'अयं' सङ्गम: । 'कथं नाम पशून् स्वामीयतु' स्वामिरूपान् तिरश्चः इच्छेत् ?गोपालको भवतु ? न कथञ्चिदित्यर्थः ॥ १५७ ।।
प्रासाद इव चन्द्रस्य, द्रौपदीचूतपादप: । चक्रशालिचर्मरत्नं, मूलदोषहर: पट: ॥ १५८ ॥ सुकृतं सङ्गमस्याहो प्राज्यभावप्रभावतः । तत्रैव दिवसे जज्ञे सर्वसिद्धिसमृद्धिदम् ॥ १५९ ॥ (युग्मम्)
'चन्द्रस्य प्रासाद इव' चन्द्रस्य प्रासाद एकेनैव दिनेन कृतः शुभाय भवति, न बहुदिनैः । तेन चन्द्रप्रासादः क्वापि न दृश्यते । 'द्रौपदीचूतपादप इव'-द्रौपद्या किल तद्दिनजाताम्रफलैर्नारदः प्रीणितः । 'चक्रशालिचर्मरत्नमिव' चक्रवर्तिचर्मरत्नवत् । चतुर्दशसु रत्नेषु चर्मरत्नं चक्रवर्तिराज्ञः सद्यः सकलस्कंधावारविस्तारकृद् भवति । 'मूलदोषहरः पट इव' पट: तद्दिनकृत एव मूलनक्षत्रदोषं हरति नान्यथा ।। १५८ ॥ तद्वत् 'अहो' इत्याश्चर्ये । सङ्गमस्य । 'सुकृतं'-पुण्यम् । 'प्राज्यभावप्रभावतः' प्रचुरसद्भावनानुभावात्। 'तत्रैव दिवसे' तस्मिन्नेव दिने । 'सर्वसिद्धिसमृद्धिदं' सकललब्धिसम्पत्तिप्रापकम् । 'जज्ञे' जातम् ॥ १५९ ॥
रागद्वेष-विवर्जितार्जवगुण-प्राप्यं सदाप्यक्षयं, विश्वस्याप्युपरि स्थितं न पुनरा-वृत्त्याऽन्वितं निश्चितम् । एकस्यैव हि चेतनस्य रुचितं, नान्यस्य भोगोचितं, दानं सङ्गमवत्सपालकलितं, सिद्धेः सुखं च स्तुमः ॥१६०॥
प्रथमं प्रक्रममुपसंहरन् दानधर्म प्रशंसन् कविराह-'सङ्गमवत्सपालकलितं'-सङ्गमगोपविहितम् । दानं परमान्नदानम्। 'सिद्धेः' मुक्तेः । 'सुखं' शर्म । चः समुच्चये । 'स्तुमः' कीर्तयामः । 'कथम्भूतं' दानं सिद्धिसुखं च ? इत्याह । 'रागद्वेषविवर्जितार्जवगुणप्राप्यं' स्नेहरोष-विरहितसरलतागुणलभ्यम् । 'सदापि' नित्यमपि । 'अक्षयं' अविनश्वरम् । 'विश्वस्यापि' लोकस्यापि । 'उपरि स्थितम्' न पुनरावृत्याऽन्वितं पुनरागमनेन न अन्वितं-न युक्तं, अपुनरावर्तनशीलम् ।
82828282828282828282828282828282828
॥४९॥