________________
श्री
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
दानपक्षे ईदृशं उत्तमदानं न पुनः लभ्यते । अर्थात् सकृदेव प्राप्तं सत् सिद्धसुखं यच्छति । निश्चितं-ध्रुवम् । 'एकस्य एव हि चेतनस्य'-आत्मनः । दानपक्षे-शालिभद्रस्य । 'रुचितं'-इष्टम् । 'न अन्यस्य' अपरस्य दानधर्मरहितस्य । 'भोगोचितं' भोगयोग्यम्। आत्मा एव निजानंतज्ञान-दर्शन-चारित्रादिगुणगरिष्ठं सुखं उपभुनक्ति, न जडः । दानपक्षेऽपि शालिभद्रं विहाय एतद्दान-जनितभोगोचितो नान्यो जनः । शार्दूलविक्रीडितं वृत्तमिदम् । तल्लक्षणं चेदम्-सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १६० ॥
श्रीशालिचरिते धर्म-कुमारसुधिया कृते । श्री प्रद्युम्नधिया शुद्धे, प्रथमः प्रक्रमोऽभवत् ॥ १६१ ॥
'धर्मकुमारसुधिया' धर्मकुमारपंडितेन । 'कृते' रचिते । 'श्रीप्रद्युम्नधिया' संशोधक प्रद्युम्नमुनिमत्या 'शुद्ध' दोषहीने। 'श्रीशालिचरिते' श्रीशालिभद्रचरित्रे । 'प्रथमः प्रक्रमः' अयं सम्पूर्णः अभवत् ॥ १६१ ॥
इति-कच्छवागडदेशोद्धारक-तपागच्छाचार्य-विजय-कनकसूरि प्रशिष्याचार्यविजय कलापूर्णसूरि-शिष्य मुनिश्रीकलाप्रभविजय (विजय कलाप्रभसूरि)-शिष्य मुनिश्री (पंन्यास)
मुक्तिचन्द्रविजय-शिष्यमुनिश्री (पंन्यास) मुनिचन्द्रविजय-विरचितायां श्रीशालिभद्र-महाकाव्यस्य सानुवाद-टीकायां
प्रथमः प्रक्रमोऽभवत् ।
82828282828282828282828282828282828
Y
॥५०