________________
श्री
प्रथमः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
दत्त्वा भुक्त्वा च तत्तादृक् कथं भोक्ष्ये कदन्नकम् । इति ध्यात्वेव तत्याज, निर्व्याजः स स्वजीवितम् ॥१५४ ॥
'तत् तादृक्-श्रेष्ठं परमान्नम् । 'दत्वा'-अर्पयित्वा । 'भुक्त्वा '-अभ्यवहार्य । 'कदन्नकम्'-दरिद्रजनोचितं कुत्सितम् अन्नम् । 'कथं भोक्ष्ये'-खादिष्यामि ? 'इति ध्यात्वा इव' विचार्य इव । 'निर्व्याजः' निष्कपटः । 'सः' सङ्गमः । 'स्वजीवितं' निजजीवनम् । 'तत्याज' अजहात् । मृतः इत्यर्थः ॥ १५४ ॥
अर्थे ग्रन्थिस्थिते को नु, कुवासे निवसेद् बुधः । पात्रदानधनः सैष ग्रामाङ्गे ते ततोऽत्यजत् ॥ १५५ ॥
'अर्थे' धने, 'ग्रन्थिस्थिते' स्वसमीप स्थिते सति, को नु, 'कुवासे' कुत्सिते-स्थाने । 'निवसेद्' स्थितिं कुर्यात् ? 'सैषः' स एष सङ्गमः । 'पात्रदानधनः' सुपात्र-दानमेव धनं यस्य सः । 'ततः ते ग्रामाले ग्रामश्च अङ्गं-शरीरं च इति कुत्सिते ग्राम-शरीरे । 'अत्यजत्' अजहात् ॥ १५५ ॥
दानमुद्रां करे कृत्वा, दधद्धर्माधिकारिताम् । सतां सेव्यः कथं त्वेष, स्यात्तिरश्चामनुपूवः ॥ १५६ ॥
'दानमुद्रां' वितरणमुद्रम् । 'महोर' इति भाषायाम् । 'करे' हस्ते । 'कृत्वा' विधाय । 'धर्माधिकारितां' धर्माध्यक्षताम् । 'दधत्' धारयन् । 'सतां' सज्जनानाम् । 'सेव्यः' आराध्यः । 'एषः' सङ्गमः । 'तिरश्चां' पशूनाम् । 'अनुपूवः' अनुचर: सेवकः । 'कथं स्यात् ?' न कथमपीत्यर्थः । दानकरणात् स गोपत्वेन कथं तिष्ठेदित्यर्थः ॥ १५६ ।।
पात्रदानाभिमानाद्यो, नृपस्यापि सहिष्यते । न स्वामित्वं कथं नाम, स्वामीयतु पशूनयम् ॥ १५७ ॥ 'पात्रदानाभिमानात्' पात्रविश्राणनगौरवात् । य: शालिभद्रः । 'नृपस्यापि' श्रेणिकराज्ञोऽपि । 'स्वामित्वं' आधिपत्यम् ।
828282828282828282828282828282828282
॥४८
॥