________________
श्री
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सौभाग्यं सङ्गमस्याहो, नवोढाऽपि सुवासना । प्रिया सतीव सोल्लासा तस्याभूत् सहयायिनी ॥ १५० ॥
'अहो -आश्चर्ये । 'सङ्गमस्य सौभाग्य'-सुभगता । 'नवोढाऽपि'-तत्कालपरिणीता अपि तत्कालजनिताऽपि इत्यर्थः । 'सुवासना' शुभा भावना । 'सोल्लासा' सोत्साहा । 'सती' पतिव्रता । 'प्रिया' 'इव' पत्नी इव । 'तस्य' सङ्गमस्य । 'सह-यायिनी' सहगामिनी । 'अभूत्' अजायत । परलोक-गमनेऽपि सुभावना सार्धमचलदित्यर्थः ॥ १५० ।।
रूपस्थध्यानतो ध्यात्वा, पञ्चमं परमेष्ठिनम् । समाधान-सुधाकुण्डे कण्ठदने स मग्नधीः ॥ १५१ ॥ निराकृत्य गति दिव्यां दानशीलविनाकृताम् । दानध्यानानुसन्धानाद् दानशीलां गतिं ययौ ॥ १५२ ॥
'पञ्चमं परमेष्ठिनं' पञ्चमपदे स्थितं मुनिम् । 'रूपस्थध्यानतो'-रूपस्थनाम्ना तृतीयध्यानेन । 'ध्यात्वा'-प्रणिधाय 'समाधान सुधाकुण्डे' समाधिपीयूष जलाशये । 'कण्ठदने' कण्ठप्रमाणे, प्रमाणेऽर्थे "वोवं" (३-१-१४२) इति सूत्रेण दघ्नट्-द्वयसट् । 'मग्नधी:'-निविष्टमतिः । 'स:'-सङ्गमः ॥ १५१ ॥
'दिव्यां'-देवलोक-सम्बन्धिनीम् । 'दानशीलविनाकृतां' दानब्रह्मचर्यादि धर्मरहिताम् । 'गर्ति' देवगतिम् । 2 'निराकृत्य' अनादृत्य । 'दानध्यानानुसन्धानात्' वितरण-विचारणानुबन्धात् । 'दानशीलां' दान-प्रधानाम् । 'गर्ति' मनुष्यगतिमित्यर्थः । 'ययौ' गतः ॥ १५२ ॥
मर्त्यत्वे देवभोगानां, लब्धिश्चित्रविधायिनी । इतीव सुमनुष्यत्व-सङ्गमं सङ्गमो व्यधात् ॥ १५३ ॥
'मर्त्यत्वे'-मनुष्यत्वे । 'देवभोगानां'-दिव्यसुखानाम् । 'लब्धि:'-प्राप्ति: । 'चित्रविधायिनी'-आश्चर्यकारिणी । 'इतीव'-सञ्चिन्त्य । 'सङ्गमः सुमनुष्यत्वसङ्गम-सुनरत्वसंयोगम् । 'व्यधात्' अकरोत् ॥ १५३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥४७॥