________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
साम्प्रतं साम्प्रतं मेऽसौ, प्रशमामृततल्लिका । शरणं शरणं शान्तेर्भूयान्मुनिमतल्लिका ॥ १४६ ॥
'साम्प्रतं'-इदानीम् । 'असौ प्रशमामृततल्लिका' प्रशान्तिपीयूषतटाकिका-तुल्यः । 'शान्तेः'-शमस्य । 'शरणं'धाम । 'मुनिमतल्लिका'-श्रमणश्रेष्ठः । 'शरणं'-आश्रयः । 'भूयात्'-भवतु इति 'साम्प्रतं'-उचितम् ॥ १४६ ॥
सतां निदर्शनीयेऽस्मिन्, रत्नादर्शसुदर्शने । पुरस्कृतो महात्मेव, लघुके प्रतिबिम्बित: ॥ १४७ ॥
'सतां'-सज्जनानाम् । 'निदर्शनीये'-उदाहरणीये । 'रत्नादर्शसुदर्शने'-रत्नदर्पण इव शोभनं दर्शनं यस्य तस्मिन् । 'लघुके'-बालसङ्गमे । 'पुरस्कृतः' ध्यानतः हृदयस्य अग्रस्थितः । 'महात्मा'-महामुनिः । 'इव'-जाने । 'प्रतिबिम्बित:'संक्रान्तः ॥ १४७ ॥
नामुञ्चद्धर्मरङ्गस्तं, तदात्वमपि सङ्गतः । प्राणान्तसङ्कटेऽप्याप्ते, राजपुत्र इवोत्तमः ॥ १४८ ॥
'प्राणान्तसङ्कटेऽपि' मरणापत्तावपि । 'आप्ते' आगते । 'उत्तमः' श्रेष्ठः । 'राजपुत्रः इव'-नृपनन्दन इव । 'तदात्वम्' तत्कालम् । 'सङ्गतः' अपि संलग्न: अपि । धर्मरङ्गः-सुकृत रागः । 'तं' सङ्गमम् । 'न अमुञ्चत्' न अत्यजत् । अर्थात् मृत्युसमयेऽपि तेन धर्मो न त्यक्तः ॥ १४८ ।।
आचारः कुलमाख्याति, यदि सत्यमिदं वचः । निर्णीतं दान-धैर्याभ्यां, तत्स क्षत्रियगोत्रभूः ॥ १४९ ॥
'आचारः' वर्तनम् । 'कुलम्' अन्वयम् । 'आख्याति' कथयति । 'यदि इदं वचः' वचनं । 'सत्यं'-समीचीनम् । 'तत्' तस्मात् । 'दानधैर्याभ्यां' तस्य विश्राणनधृतिभ्याम् । 'निर्णीतं' निश्चितम् । यत् । 'सः' सङ्गमः । 'क्षत्रियगोत्रम्' क्षत्रियकुलप्रभवः ॥ १४९ ॥
828282828282828282828282828282828282
॥४६॥