________________
श्री शालिभद्र महाकाव्यम्
FRERERE
कम्बलावरणस्यापि सत्यं मे भाग्यतोऽभवत् । पात्रदानमहापुण्यं कर्पूरेणाऽऽस्यपूरणम् ॥ १४२ ॥ 'कम्बलावरणस्यापि' कम्बलमेव आवरणं वस्त्रं यस्य तस्यापि । 'मे' मम । भाग्यतः सत्यं निश्चितम् । 'पात्रदानमहापुण्यं' पात्रे दानात् जातं महापुण्यम् 'कर्पूरण' घनसारेण 'आस्यपूरणम्' मुखस्थगनम् । 'अभवत्' जातम् ॥ १४२ ॥ पशुदेश्यः पशुप्रेष्यः, क्वाहं सर्वबहिष्कृतः । क्व वा मुनि-महेन्द्रोऽयं सुमनोराजिशेखरः ॥ १४३ ॥
क्व अहम् । 'पशुदेश्य:'- पशुसमः । 'पशुप्रेष्यः'- पशुदासः । 'सर्वबहिष्कृतः ' सर्वलोकात् निराकृतः ? | 'क्व वा अयं' । 'सुमनोराजिशेखरः ' - विद्वदावलीमुख्यः । इन्द्रपक्षे - सुमनसां देवानां राजिषु आवलीषु शेखरः मुख्यः । 'मुनिमहेन्द्र: ' - मुनिमुख्यः । पक्षे - इन्द्रः ॥ १४३ ॥
समग्रा सा क्व सामग्री, क्व मे सर्वविहीनता । विशाला चन्द्रशालाऽसौ पर्णशालामधिश्रिता ॥ १४४ ॥
'क्व सा समग्रा' - संपूर्णा सामग्री परमान्न भोजन-साधुसमागमनादिरूपा ? 'क्व' च 'मे' मम। 'सर्व-विहीनता'बाह्यान्तरसर्ववैभवरहितता ? । तन्नूनं 'असौ विशाला' - महती । 'चन्द्रशाला' - शिरोगृहम् । 'पर्णशालाम्'- उटजम् । 'अधिश्रिता' - आश्रिता इति मन्ये । इयं पूर्वोक्ता सामग्री कुटीरकोपरि चन्द्रशाला - समाना जातेत्यर्थः ॥ १४४ ॥
परान्नं मां तु संस्थाप्य, परमान्नं दधेऽम्बया । मया तु परमार्थान्नं कृत्वाऽर्थान्निजकानहो ।। १४५ ॥ 'अम्बया' मात्रा । 'मां तु परान्नं' परपिण्डादं परपिंडभोजिनम् । संस्थाप्य' न्यस्य । 'परमान्नं' - क्षीरम् । 'दधे' अधारि । मया । 'तु' किन्तु । निजकान् स्वकीयान् । 'अर्थान्' प्रयोजनान् । 'कृत्वा' - विधाय । 'अहो' इत्याश्चर्ये । ‘परमार्थान्नं' मुनिदानजनितं वास्तवभोजनं परलोक - प्रयाण पाथेयं । 'दधे' विदधे कृतम् ॥ १४५ ॥
sa
प्रथमः
प्रक्रमः
।। ४५ ।।