________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
SASApsa 8282828282828282828282828282
सूत्रयोगे। 'सूचिका'-सूचितकारिणी । पक्षे सूची । इत्थं सा विशूचिका गुणकारिणी अभवत् 'न तु दोषस्य सूचिका' कथयित्री ॥ १३७ ॥
प्रायः स्मरत्यभावेऽपि हा मातरिति दुःखितः । सा प्रत्युत मुनिध्यानात् तस्यासन्नापि विस्मृता ॥ १३८ ।
'प्रायः' मातुः ‘अभावेऽपि' 'हा मातः' 'इति' जल्पन् दुःखितो 'बालः स्मरति' । असतीमपि मातरं स्मरतीत्यर्थः । 'तस्य' सङ्गमस्य । 'प्रत्युत सा' धन्या माता 'आसन्नापि'-समीपगाऽपि । 'मुनिध्यानात्' मुनिध्यानप्रभावात् । 'विस्मता'विस्मृतिं गता ॥ १३८ ॥
प्रायः कण्टकभङ्गोऽपि स्याद्धर्मे रङ्गभङ्गदः । सङ्गमस्य पुनः प्राण-संशयोऽपि न भावभित् ॥ १३९ ॥
'प्रायः' 'कण्टकभङ्गोऽपि'-कण्टकवेधोऽपि मनाग् दुःखमपि इत्यर्थः । 'धर्मे' सुकृते । 'रङ्भङ्गदः'-उल्लासमर्दी । 'स्यात्'-भवेत् 'सङ्गमस्य-पुनः प्राण-संशयोऽपि भावभित्'-भावभञ्जको । 'न अभूत्'-न जातः ॥ १३९ ॥
स दध्यौ धीरधौरेयः, पात्रादानबलोज्ज्वलः । मृतेरवश्यंभाविन्या, भावज्ञानां कुतो भयम् ॥ १४० ॥
'पात्रादानबलोज्ज्वल:'-सुपात्रदानबलनिर्मल: । 'धीरधौरेयः' धीराग्रणी: । 'स'-सङ्गमः । 'दध्यौ' चिन्तयति स्म। किमित्याह-'अवश्यम्भाविन्याः' अवश्य भवतीत्येवंशीलायाः। मृतेः' मरणात् । भावज्ञानां'-तत्त्वज्ञानाम् । कुतः भयम् ? ॥१४०॥
पान्थः पथि स दुःखी यो याति शम्बलदुर्बलः । पात्रदानेन संपन्नं, शम्बलं सबलं तु मे ॥ १४१ ॥
'यः पान्थः'-प्रवासी । 'पथि'-मार्गे । 'शम्बल-दुर्बल:'-पाथेयेन रहितः । 'स दुःखी' भवति । 'पात्रदानेन तु मे'परलोकप्रयाणे । 'सबलं' सशक्तं । 'शम्बलं' प्राथेयम् । सम्पन्नं प्राप्तम् । अतो नास्ति मे कोपि चिन्तालवः ॥ १४१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥४४॥