________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
न स्थानं धर्मसंस्थानं, न चास्य विमलं कुलम् । नोपदेशः पुण्यदेशः, सन्निधिर्न धियां निधिः ॥ १३४ ॥ इतीवानवधानेन, संमोहेनावधीरितः । स कर्मविवरं प्राप्य, मन्ये स्वार्थमसाधयत् ॥ १३५ ॥ (युग्मम् )
'अस्य सङ्गमस्य न धर्मसंस्थानं'-धर्मस्य संस्थान-स्थिति: यत्र तादृशं धर्मसंस्थान-स्थानम् । 'न च विमलं'उज्ज्वलं कुलम् । 'न पुण्यदेशः' पुण्यस्य देशः-विभागो यत्र स न पुण्यदेशः । 'उपदेशः' मुनीनामुपदेश: 'न धियां'न बुद्धीनाम् । 'सन्निधिः' समीपम् । अत्रापि नकारो द्रष्टव्य: । निधिः अर्थसञ्चय: नास्ति ॥ १३४ ॥
'इतीव अनवधानेन'-असावधानेन । 'संमोहेन'-मोहराजेन । 'अवधीरित:'-अवगणितः । 'स'-सङ्गमः । 'कर्मविवरं'-कर्म-च्छिद्रम् । 'प्राप्य'-लब्ध्वा । 'स्वार्थ'-निजप्रयोजनम् । 'असाधयत्'-साधितवानिति । 'मन्ये' आशङ्के इति कविवचनम् ॥ १३५ ॥
दाताऽऽहारस्य तं भुक्तं, तृणायासौ न मन्यते । तेनापरिणतस्तस्य, विचक्रेऽतिक्रुधेव सः ॥ १३६ ॥
'आहारस्य'-पायसस्य । 'दाता' असौ सङ्गमः । 'तं भुक्तं'-आहारम् । 'तृणाय'-अपिरत्राध्याहार्यः, 'न मन्यते'तृणतुल्यमपि न गणयतीत्यर्थः । 'तेन अतिक्रुधा इव'-अतिरोषेण इव । 'सः आहारः'-अपरिणत: जठरे अपक्व आहारः । 'तस्य विचक्रे'-विकारं गतः ॥ १३६ ।।
कुञ्चिका पुण्यकोशस्य तस्य गूढा विशूचिका । सूचिका गुणयोगेऽभून्न तु दोषस्य सूचिका ॥ १३७ ॥
'तस्य'-सङ्गमस्य । 'गूढा'-गुप्ता । 'विशूचिका'-सद्योघाती उदरातङ्कः 'अभूत्' । कथम्भूता विशूचिका ? 'पुण्यकोशस्य'-सुकृतनिधेः । 'कुञ्चिका'-पुण्यकोशोद्घाटने कुञ्चिका इत्यर्थः । 'गुणयोगे' - सद्गुणसंयोगे । पक्षे
828282828282828282828282828282828482
॥४३॥