________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
श्री महावीरदेव: । 'स्वशिष्यायाः सामण्याः' दानसामाया: । 'कारको'-विधायकः । 'जज्ञे'-अभवत् । अत्र तु नास्ति साक्षात्तीर्थकरः नापि च राजपुत्री तथापि महाफलं दानमभूदिति चित्रम् ॥ १२९ ॥
मूलदेवेन तत्कालं स्वेच्छा स्वच्छतयोदिता । बालेनापि महेच्छेना-नेन मौनं कृतं हितम् ॥ १३० ॥
'मूलदेवेन स्वेच्छा'-निजकामना । 'तत्कालं'-दानक्षणे एव । 'स्वच्छतया'-निर्मलतया । 'उदिता'-कथिता प्रकटीकृतेत्यर्थः । 'अनेन महेच्छेन'-उदारेण । सङ्गमेन बालेनापि हितं मौनं कृतमिति । निष्कामं दानं दत्तम् । मूलदेववत् मनसि न कापि कामना कृतेत्यर्थः ॥ १३० ॥
अनुदानं पुरो मातुर्मीनं यत्सङ्गमो व्यधात् । मन्ये सत्यं तदैवाभून्मौनं सर्वार्थसाधकम् ॥ १३१ ॥
'अनुदानं'-दानानन्तरम् । 'मातुः'-जनन्याः । 'पुरः'-अग्रे । 'सङ्गमः यत् मौनं व्यधात्'-अकरोत् । 'तदैव' तत्काले | एव । 'मौनं सर्वार्थसाधकं' इति लोकरूढं सूत्रम् । 'सत्यम् अभूत्' इति 'मन्ये' ॥ १३१ ॥
तदार्जवं वासना सा, दुष्प्रापाऽस्तु कलौ नृणाम् । दाने दत्ते तु यत्तस्य, मौनं तदापि दुष्करम् ॥ १३२ ॥
'कलौ'-कलिकाले । 'नृणां'-मानवानाम् । 'तदार्जवम्'-तत् सङ्गमस्य ऋजुत्वम् । 'सा वासना'-सङ्गमस्य सा भावना। 'दुष्प्रापा'-दुर्लभा अस्तु-भवतु । किन्तु 'दाने दत्ते तु यत् तस्य' केवलं मौनं तदपि दुष्करम् ॥ १३२ ॥
महादानेऽपि यत्तस्य, न सुरा ववृर्युवसु । दातुं किल व्यलम्बन्त, तत्प्रभूतं भवान्तरे ॥ १३३ ॥
'तस्य' सङ्गमस्य । 'महादानेऽपि यत् सुराः'-देवाः । 'वसु' द्रव्यं । 'न ववृषुः'-अवर्षन् । तत्र कवि: उत्प्रेक्षते: 'तत् भवान्तरे'-आगामिभवे । 'प्रभूतं'-पुष्कलं द्रव्यं दातुं देवाः किल व्यलम्बन्त-विलम्बितवन्तः ॥ १३३ ॥
ARRARAUAYA8A8282828282828AKUR
॥४२॥