________________
श्री
शालिभद्र महाकाव्यम्
ERERERE
कन्या सूत्रं गजपटी, स्वयंभूर्देवता तथा । बालेन्दुरुपमानानि स्युस्तद्दानस्य शैशवे ।। १२६ ।। ‘तद्दानस्य’-संगमदानस्य । 'शैशवे'- बालत्वे प्रारंभो इत्यर्थ: । 'कन्या' कुमारी स्त्री । 'सूत्र' कर्तितं सूत्रम् । 'गजपटी'देशान्तरीयं वस्त्रम् । 'तथा स्वयंभूः देवता' ब्रह्मा । बालेन्दुः- बालचन्द्र:- एतानि ' उपमानानि स्युः' । यथा एतानि वस्तूनि क्रमेण वर्धमानानि पूर्णतां प्राप्नुवन्ति, तथा तद्दानमपि पूर्णतां गमिष्यति । अयं भावः - कुमारी, पत्नी माता मातामही इत्यादि स्वरूपं प्राप्य विशाल-परिवारस्य कारणं भवति । सूत्रं अन्ततोगत्वा वस्त्रं भवति । स्वयंभूः ब्रह्मा एकोऽहं बहु स्यामिति भावनया पौराणिकमतेन समग्रसृष्टेर्मूलकारणं भवति । बालचन्द्रः प्रतिपच्चन्द्रः पूर्णः चन्द्रो भवति । तथेदं दानमपि विस्तारं गमिष्यति ॥ १२६ ॥ १२७ ॥
श्रीनाभेयप्रपौत्रः श्री-श्रेयांसो जातिसंस्मरः । कलाकल्पलतामूलं मूलदेवश्च भूपभूः ॥ नागरी गुणगौराङ्गी, चन्दना नृपनन्दना । ग्राम्योऽयं बालगोपालः प्रदातेत्यद्भुतं पुनः ॥ १२८ ॥ 'श्रीश्रेयांसः ' ' श्रीनाभेयप्रपौत्रः - श्री आदिनाथ- प्रपौत्रः - श्रेयांसः । 'जातिसंस्मर: ' जातिस्मरणज्ञानवान् आसीत् । 'मूलदेवः' । च: समुच्चये । 'कलाकल्पलतामूलं' - कलाकल्पवल्लिकन्दम् । 'भूषभूः ' - राजपुत्रः अभवत् ॥ १२७ ॥ 'गुणगौराङ्गी' - गुणोज्ज्वलाङ्गी । चन्दना 'नागरी' नगरे भवा पौरी इत्यर्थः । 'नृपनन्दना' - राजपुत्री आसीत् । 'अयं पुनः ग्राम्यः' ग्रामे भवः ग्राम्य: । 'बालगोपाल : ' - बालश्चासौ गोपालश्चेति । 'प्रदाता इति अद्भुतम्' । अन्ये दातारः अनेकगुणवैभवसमलङ्कृताः आसन् । अयं तु अज्ञो ग्रामीणो गोपशिशुः प्रदाता इति अत्र आश्चर्यम् ॥ १२८ ॥
चन्दनायाः किमाश्चर्यं स्वशिष्यायाः स्वयं प्रभुः । सामग्र्याः कारको जज्ञे, चतुर्धाभिग्रहाग्रही ॥ १२९ ॥ 'चन्दनायाः किमाश्चर्यं' किंचित्रम् ? यतः 'चतुर्धाभिग्रहाग्रही' द्रव्यक्षेत्रकाल भावाभिग्रहाग्रही । 'स्वयं प्रभुः -
ERERERED
प्रथमः
प्रक्रमः
॥ ४१ ॥