________________
१९६
गुजरातना ऐतिहासिक लेख्न
अक्षरान्तर पतरूं पहेलु
१ ओं स्वस्ति विजयस्कन्धावारात् सिरिसिम्मिणिकावासकात् प्रसभप्रणतामित्राणां
मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तमहारशत२ लब्धप्रतापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्त
राज्यश्रियः परममाहेश्वरश्रीभटादिव्यवच्छि३ नराजवशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खग
द्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितस४ त्वनिकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसहतिः सकल.
स्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्व५ स्वराजशब्दो रूपकान्तिस्थैर्यगांभीर्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदश
गुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणव६ दपास्ताशेषस्वकार्यफल [ : ] प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयि.
हृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्री. ७ गुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविस्तजाहवीजलौघप्रक्षालिताशेषकल्मषः
प्रणयिशतसहस्रोपजीव्यमानसंपद्रूफ्लोभादिवाभि८ तः सरमसमाभिगामिकैगुणैस्सहजशक्तिशीक्षा विशेषविस्मापिताखिलधनुर्द्धरः
प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मादायानामपा९ कत्ती प्रजोपघातकारिणामुपप्लवानां दर्शयिताश्रीसरस्वत्योरेकाधिवासस्य संहताराति
एक्षलक्ष्मीपरिभोगदक्षधिक्रमो विक्रमोपसंप्राप्तविमलपा१० र्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्वयातस्सकलजगदानन्द
नात्यद्भुतगुणसमुदयस्थगितसमग्रदिङमण्डलः समरशतविजयशो११ भासनाथमण्डलाग्रद्युतिमासुरतरांसपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरापरवि
भागाधिगमविमलमतिरपि सर्वतः सुभाषितल-- १२ वेनापि सुखोपपादनीयपरितोषः समप्रलोकागाधगांभीर्यहृदयोपि सुचरितातिशयभु
व्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुगनृपति१३ पथविशोधनाधिगतोदप्रकीर्तिः धर्मानुपरोधोज्वलतरीकृतार्थसुखसंपदुपसेवानिरू
ढधादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः १४ तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीया
मपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञापायो संहतिः २ पाया शिक्षा
"Aho Shrut Gyanam"