________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( 30 )
एवं सति कस्तत्र तत्त्वप्रतिपत्त्युपाय इत्याशङ्कयाह अध्यात्ममत्र परम, उपायः परिकीर्त्तितः । गत सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ २॥ मुक्त्वातोवादसंघट्ट- मध्यात्ममनुचिन्त्यताम् । नाविधूते तमस्स्कन्धे, ज्ञेये ज्ञानं प्रवर्त्तते ॥ ३ ॥ सदुपायाद्यथैवाप्ति - रुपेयस्य तथैव हि । नेतरस्मादितिप्राज्ञः सदुपायपरो भवेत् ॥ ४ ॥ सदुपायश्च नाध्यात्मा- दन्यः सन्दर्शितो बुधैः । दुरापं किंत्वदोऽपीह भवाब्धौ सुष्ठुदेहिनाम् ॥ ५ ॥ इतोऽन्यथा प्रज्ञतैव न सिद्ध्यति, तस्मात्सर्वप्रयत्नेन तत्त्वार्थिभिः सद्योगप्रवृत्तिप्रतिपत्त्यर्थं तत्प्रतिपादकानि प्रवचनानि सततं परिशीलनीयानि, सत्यतत्त्वमेव परिग्रहणीयम्, न तु पक्षपातिना भवितव्यम्, यदुक्तमागमे,
"
Acharya Shri Kailassagarsuri Gyanmandir
आत्मीयः परकीयो वा, कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टबाधितो यस्तु, युक्तस्तस्य परिग्रहः ॥ १ ॥ इत्थमवधार्य मतिमद्भिः सार्वदर्शनिकैरयं संस्कृतपद्यो पनि - बद्धो योगदीपकाख्यो गुर्जरभाषया परमहृद्यया समलङ्कृतो ग्रन्थो दृष्टिपथमवश्यतया नेतव्यः । अस्य ग्रन्थस्य प्रणेता, साम्प्रतकालीनः साक्षर जैन जैनेतरवर्गसंमान्यः परोपकाररसिको योगनिष्ठ मुनिवर्य्यबुद्धिसागरश्रमण आर्यावर्ते विजयतेतराम् । अस्मिन्योगदीपकाख्ये परमपावनीये ग्रन्थे, ज्ञान दर्शनचारित्रादिविभेदेन, योगमार्गस्यानेके भेदाः प्रदर्शिताः, तत्र मुख्यतया सहजयोगस्य विस्तारो दरीदृश्यते, हठयोगस्यापि च जैन सिद्धान्तानुसारेण तत्र तत्र सविस्तरं प्रतिपादनं स्फुटतामावहति, मोक्षमार्गोपासकानां भव्यजनानामयं योगदीपक ग्रन्थो दीपकवत्सम्यगुपकारी भविष्यतीति मदीयो निश्चयः । अस्य
For Private And Personal Use Only