SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २८ ) चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्र - रूपरत्नत्रयञ्च सः ॥ २ ॥ योगः सर्वविपद्बली - विताने परशुः शितः । अमूलमन्त्रतन्त्रञ्च, कार्मणं निर्वृतिश्रियः ॥ ३ ॥ भूयांसोsपि हि पाप्मानः, प्रलयं यान्ति योगतः । चण्डवाताद्धनघना - घन घन घना इव ॥ ४ ॥ क्षिणोति योगः पापानि, चिरकालार्जितान्यपि । चितानि यथैधांसि, क्षणादेवाशुशुक्षणिः ॥ ५ ॥ अथ प्रकारान्तरेणश्रीमद्धरिभद्रसूरियोंगमाहात्म्यादेव परलोकसिद्धिं प्रतिपादयन्नाह । > " 7 ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेषेण, सत्तीसेवनेन च ॥ १ ॥ पित्रोः सम्यगुपस्थानाद्, ग्लान भैषज्यदानतः । देवादिशोधनाच्चैव भवज्जातिस्मरः पुनः ॥ २ तस्मात्तत्त्वान्तरप्राप्तिरपि निष्पन्नयोगेनैव समासाद्यते । तदुक्तं तैरेव. Acharya Shri Kailassagarsuri Gyanmandir एवञ्च तत्त्वसंसिद्धेर्योग एव निबन्धनम् । अतो यन्निश्चितैवेयं, नान्यतस्त्वीदृशी क्वचित् ॥ १ ॥ अतोऽत्रैव महान्यन - स्तत्तत्तत्त्वप्रसिद्धये । प्रेक्षावता सदा कार्यों, वादग्रन्थास्त्वकारणम् ॥ २ ॥ तस्मात्तपोनिर्धूतकल्मपर्योगमार्गविद्भिः श्रीमद्धेमचन्द्राचार्यप्रभृतिभिर्भविष्यद्विवाद बहुलकलिकालयोगिहितार्थं मतिमोहान्धकारप्रदीपप्रख्यानि प्रवचनानि समर्थितान्यनेकशः सन्ति । एतदेव दर्शयति वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ ॥ १ ॥ For Private And Personal Use Only
SR No.008688
Book TitleYogadipak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy