________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्थस्य विशेषतोऽभिशंसनेनालम् , किन्तु मध्यस्थदृष्टिधारका गुणानुरागिणो जनाः स्वयमेवास्य ग्रन्थस्य विलोकनेनावगतार्थाः प्रस्तोतारो भविष्यन्तीति निर्विवादम् ॥ भारतभूमिविभूषणायमानेन सर्वत्र प्रख्यातिभाजा बुद्धिसागरेणेमं योगदीपकं रचयित्वा भारतवासिनां जनानामुपर्य्यनल्पोपकारो विहितोऽस्त्यतो मुनिवर्यश्रीमद्बुद्धिसागरः प्रशस्तधन्यवादं बरीभर्ति “परोपकाराय सतां विभूतयः” इति न्यायाऽनुसारेण ॥ शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥ १॥
ले० भाईशङ्करशास्त्री.
For Private And Personal Use Only