________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २७ )
द्यागमप्रामाण्याद्रेयोपादेयलक्षणो धर्मः समाराधनीयः । तथा
चोक्तं योगबिन्दौ.
व्रतानि सातिचाराणि, सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्चते व्रते ॥ १ ॥ परिशुद्ध प्रवचनाधिगमातिशायिधर्मकथाविसंवादिनिमित्तादि लक्षणस्य तस्य तस्य कल्याणस्य योगेन मोक्षबीजाधानादिरूपं सत्त्वार्थमेव विदधानो यो वरबोधिमान्भवेत् स प्रकृष्टं, भव्य सत्त्वप्रयोजनकारितीर्थकृत्पदं प्राप्नोति, तथा चैतत्प्रकारेण स्वजनमित्र देशादिविशेषगतं परमार्थत्त्वं यो बोधिप्रधानो जीवो विचिन्तयेत् स परोपकाररूपाच्चिन्तानुष्ठानाच्च न केवलं परोपकारी तीर्थकृद्भवेत्, किन्तु देवदानवमानवादिमाननीयमहिमा, तीर्थकराग्रिमशिष्यः प्रशस्तबुद्धिर्गणधरोऽपि जायेत । तथैव जरामरणादिदारुणदहनदह्यमानभवभवनोदराद्दूरमात्मनिःकाशनं यः संवेगशाली चिन्तयति, स स्वप्रयोजनमात्रप्रतिबद्धमानसः सततमेव द्रव्यभावमुण्डनप्रधानो मुण्डकेवलदर्शनवान् भवेत् ।
,
संवेगस्य लक्षणञ्चेत्थम् । तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने
Acharya Shri Kailassagarsuri Gyanmandir
संवेगोऽसौ निश्चलो योऽनुरागः ॥ १ ॥
इदानीं दुःषमसुषमाख्ये पञ्चमारकेऽपि योगजन्यं फलं प्रत्यक्षतया प्रायो विलोक्यते । तदन्यदामर्षौषध्यादिप्राप्तिरूपं फलमागमभाषितं श्रूयते ।
तथा च.
अलौल्यमारोग्यमनिष्ठुरत्त्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।
For Private And Personal Use Only