________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६ )
विद्याभ्यासं दूरतः परिहृत्य परमतत्त्वेतरमानिनो जडवस्तुपङ्किले निमग्ना उत्तरत्र भविष्यन्तीति संभाव्यते । तस्मादिदानीन्तने काले, दयाप्रधानास्तत्त्ववेदिनः परमोपकारिणो महात्मानो यदि प्रयासजातमविगणय्य मृषाध्वसेविनो जनान्नोपदेक्ष्यन्ति, चेदणीयसा कालेन सत्तत्त्वविमुखानां साम्राज्यं स्थिरीभविष्य - तीति स्फुटमनुमीयते । आत्मतत्त्वानभिज्ञा इदानीं बहुशो जना विलोक्यन्ते, तत्कारणन्तु प्रत्यहमैहिक सुखवाञ्छायां समुत्पन्नधियां तेषां मनांसि तत्रैव लब्धस्वास्थ्यानि निजात्मतत्वविचिन्तने विधुराणि भवन्तीति विभावनीयं विशेषज्ञैः ।
प्राप्तप्रमादतिमिरोध्यात्मतत्त्वविमर्षणेऽसमर्थो जनवातोऽधुना केवलं शारीरिकशर्म्मलोलुपो भववल्लीविवर्द्धनोपायं रचमानो दिक्षु विदिक्षु विमूढ इवेतस्ततो बम्भ्रमीति । इदमेव भारतं वर्ष कतमस्मिन्समये योगविद्याप्रभावेण महत्तरभाग्यास्पदं व्यजैपीदिति साम्प्रतमपि प्राचीनमहामुनिरचितानामध्यात्मयोगशास्त्राणां समवलोकनेन निश्चीयते । इदानीमनात्मविद्याविशोधने बद्धकक्षो जनसमुदायो यथा व्यापृतस्तथैव पुरा परात्मविद्याविशोधनेन जनप्रयासः सफलीक्रियते स्म । प्राक्तनानामध्यात्मविदां मानवोत्तमानामाचारप्रमुखगुणव्यूहं स्मृतिगोचरं विधाय साम्प्रतकालीनजनसंस्थाविलोकनेन च केषां सहृदयानां हृदयानि शिवेतराश्रुमौक्तिकमालाभिर्नोविराजन्ते । यद्यप्येवमस्ति, तथाप्येतदध्यात्मतत्त्व रसिकैस्तच्छुद्धिं समीहमानैर्नृभिर्नाङ्गीकर्त्तव्यम्, यतो यद्वस्तु प्राभ्युपाये यादृशं प्रयासभूयस्त्वं विद्यते तादृश्येव तद्वस्तुलाभे सुखसम्पत्तिरनुभूयते । बाह्यभावा यद्यपि सुखेन साध्या विद्यन्ते, परात्मतत्त्वज्ञानन्तु विपुलतरश्रमनिष्पाद्यं संभाव्यते, तथाप्यनुकूलसाधनसम्पत्त्या द्रव्यज्ञानकलापसंभृतां नृजातिं समासाद्य तस्मिन्नेव सर्वथा यतितव्यम् । यतः (ऋते ज्ञानान्न मोक्षः) इत्यादि बहुवि -
"
For Private And Personal Use Only