________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगमाहात्म्यम्
श्रीमानयमार्यावर्तः पुरा योगविद्याचणैनरपुङ्गवैविशेषतः समलङ्कृतोऽभूदिति प्राक्तनग्रन्थावलोकनेन प्रत्यक्षीक्रियते, योगाभ्यासजातविविधसिद्धिचयेन, तत्त्वातत्त्वविवेकविमुखानामनधिगतदर्शनानां नास्तिकानामपि प्रस्तरप्रायेषु चेतःसु बलादस्तित्त्वप्रज्ञामास्थापयन्तः, कामक्रोधलोभाद्यन्तरारिव्यालोलूकव्याघ्रप्रमुखनिषेवितायां नीरसायां भवाटव्यां बम्भ्रमणेन दुरन्तां व्यथामनुभवन्तः सुलभबोधिनो नरानश्रमेणोन्नतपदमारोहयन्तः, करामलकवत्प्रत्यक्षतया स्वयमेव पुनर्जन्मजातिस्मरणादिज्ञानमुद्रां धारयन्तः, सुयोगबलेन, कालत्रयवर्त्तिविविधपदार्थेषु संशयिताञ्जनान्निःशङ्कानापादयन्तः सिद्धयोगा महात्मानः पारमात्मिकज्ञानाद्यनन्तशक्तिवोधं ग्राहयामासुः । पुरैतादृक्षैः पुरुषरत्नविभूषितोऽयमार्यदेशोऽधुनाऽतात्त्विकजडवादविद्योपामकजनानां संसर्गवशेन महतीं विगर्हणीयामवस्थामावहति ।
॥ तदुक्तम् ॥ सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ॥ स्वाती सागरशुक्तिसंपुटगतं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगतिः संवासतो दृश्यते ॥१॥ अधुना च योगविद्यापठनपाठनक्रमोऽपि परमकृशतामभिप्रपन्नोऽस्ति, मम्यग्योगाध्यात्मविद्यायां निपुणाः साम्प्रतं के महात्मानः सन्तीति विचारास्पदं दरीदृश्यते । आर्यावर्त्तलब्धजन्मानः साम्प्रतकालीना जनाः पाश्चिमात्यतत्त्वशून्यजनानां सङ्गबलेन, जडवस्तुषु लुब्धास्तजिघृक्षया जात्यरत्नसमं योग
यो. . ४
For Private And Personal Use Only