SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२) निश्चयात्किञ्चिदंशेन, साध्यते ज्ञानयोगिभिः॥ ७९ ॥ उत्तमो राजयोगश्च, हठः प्रोक्तः कनिष्ठकः। साध्यसाधनयोगेन, अपेक्षातो हठः स्मृतः ॥ ८ ॥ पापमुक्तक्रियायुक्तो, हठः साध्यो विचक्षणैः । अगीतार्था विमुह्यन्ति, एकान्तपक्षधारकाः ॥ ८१ ॥ जैनागमपरीपाठात् , सम्यक्श्रद्धा प्रजायते । सापेक्षवादबोधाच्च, मिथ्याबुद्धिर्विनश्यति ॥ ८२ ॥ त्रिधात्मानं विजानाति, बहिरात्मादिभेदतः। परात्मसाध्यसिद्ध्यर्थ, सम्यग्दृष्टिः प्रवर्तते ॥ ८३ ॥ संयतश्राद्धधर्मे च, यथाशक्ति प्रवर्त्तते । ज्ञानादीनां समाचारान् , गृह्णाति विधितः स्वयम्॥८४॥ अनन्तदुःखदावाग्नौ, संसारेहि सुखं कुतः । कुटुम्बादिममत्वञ्च, केवलं दुःखकारणम् ॥ ८५ ।। रागद्वेषादिसंयुक्तं, मनः संसार उच्यते । रागद्वेषवियुक्तत्वान्मनो, मोक्षस्य कारणम् ॥८६॥ यावन्तो मोहसम्बन्धा, स्तावन्तो दुःखहेतवः । स्वप्नेऽपि दुःखदावाग्नि, रहो मोहस्य चेष्टितम् ॥ ८७ ॥ क्षणिकेषु पदार्थेषु, औदासीन्यं प्रवर्तते । रागादिहेतवो ये ये, ते ते वैराग्यहेतवः ॥ ८८ ॥ सर्वे बन्धुसमा जीवा, न मे वैरी न मे प्रियः। शुद्धानन्दस्वरूपोऽहं, निराकारस्वरूपवान् ॥ ८९ ॥ शुद्धात्मपदमिच्छामि, स्वाभाविकसुखप्रदम् । सर्वकर्मविनाशार्थ, मुत्सुकोऽहं प्रयत्नतः॥ ९० ॥ स्वाभाविकस्वरूपे मे, सुखानन्तमहोदधिः । ज्ञानादिसद्गुणाः सर्वे, वर्तन्ते स्वस्वरूपतः ॥ ९१ ॥ साक्षीभूतो विपश्यामि, स्फुरन्त्यादर्शवन्मयि । निर्लेपः सन्पदार्थेषु, प्रवर्ते स्वाधिकारतः ॥ ९२ ॥ For Private And Personal Use Only
SR No.008688
Book TitleYogadipak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy