________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३) अन्तर्दृष्टिं समाधाय, वर्तिष्येऽहं प्रयत्नतः। धम्मकार्याणि कुवेन्सन् , भोग्यकम्मप्रवेदकः ॥ ९३ ॥ काष्ठे वह्निस्तिले तैलं, घृतं दुग्धे च तिष्ठति । तद्वत्कर्मप्रयोगेण, आत्मा देहे प्रतिष्ठते ॥ ९४ ॥ उत्कृष्टानन्दसम्पन्नं, ज्ञानरूपं सनातनम् । ध्यानहीना न पश्यन्ति, ह्यज्ञानावृतचेतसः॥ ९५॥ ज्ञानिनामात्मचिन्ता स्या, दज्ञानिनां कुतो भवेत् । मध्यमानां वपुश्चिन्ता, भोगचिन्ता तु मोहिनाम् ॥ ९६ ॥ ऊर्ध्व गच्छेदधोगच्छे, च्छुद्धदृष्टिपराङ्मुखः । तपि शर्मनाप्नोति, स्वप्नमिष्टान्नभुक्तिवत् ॥ ९७ ॥ शर्मधर्मो न यस्याऽस्ति, नैवास्ति शर्मवेत्तृता । कुतस्ताहग्जडे शर्म, मूढस्तत्र प्रधावति ॥ ९८ ॥ श्रेष्ठाः सर्वे स्वधर्मेण, परधर्मे न तादृशाः। अधिकारिवशाद्बोधो, ह्यधिकारिवशाक्रियाः ॥ ९९ ॥ मिथ्येन्द्रजालवच्छर्म, नास्ति वाह्येषु तद्यपि । अहो मोहस्य माहात्म्याद्, भृशं रज्यन्ति मानवाः॥१०॥ कामदृष्टियुता मूढाः, प्रस्खलन्ति पदे पदे। रोगचिन्तादिसम्पन्ना, भ्रमन्ति श्वानवत्सदा ॥१०१॥ अहंममत्वसम्पन्ना, जीवा दुःखालयाः सदा। स्वार्थदोषविमूढाश्च, नन्ति जीवान् पदे पदे ॥ १०२॥ स्तयकर्म प्रकुर्वन्ति, मिथ्या जल्पन्ति वाचया। द्वेषबुद्धिं प्रकुर्वन्ति, वञ्चयन्ति हि सज्जनान् ॥ १०३ ॥ सर्वदोपालयं लोभ, भजन्ति मूढदेहिनः । आत्मदृष्टिपरावृत्ता, जीवाः सर्वत्र दुःखिनः ॥ १०४ ॥ आत्मज्ञानेन दोषाणां, नाशः शीघ्रं प्रजायते । अतः कर्मविनाशाय, ह्यात्मज्ञानस्य हेतुता ॥ १०५ ॥ उन्नतिर्द्रव्यभावाभ्यां, कर्तव्या तत्त्वकादिभिः ।
For Private And Personal Use Only