________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१ )
2
निश्चयं दर्शनं तत्तु ज्ञानं सम्यक् प्रभासकम् । द्रव्यतो भावतो विद्धि चारित्रं जैनदर्शने ॥ ६६ ॥ देशतः सर्वतो विरति श्चारित्रं तत्तु द्रव्यतः । स्थैर्य शुद्धात्मरूपेय, चारित्रं तच्च भावतः ॥ ६७ ॥ भावचारित्रकार्येहि, द्रव्यचारित्रकारणम् । कार्यकारणभावस्य, व्यवस्था सम्प्रवर्त्तते ॥ ६८ ॥ आत्मसद्धर्मलाभार्थी, सेव्यः सद्गुरुयोगिराट् । सप्तनयैर्विजानीहि, चारित्रं क्रमशुद्धिमत् ॥ ६९ ॥ स्थूलसूक्ष्मविभेदेन क्रिया चारित्रिणो द्विधा । शरीरादिकृता स्थूला, सूक्ष्मात्वध्यवसायतः ॥ ७० ॥ धर्मसूक्ष्मक्रियायोगात्, प्रसन्नचन्द्रवन्मुनिः । दृढप्रहारिवच्छीघं, कर्माष्टकं विनाशयेत् ॥ ७१ ॥ सूक्ष्मकर्मविनाशाय, सूक्ष्मधर्मक्रियावरा । वृषभमातृवज्ज्ञेया, कपिलपैरिव प्रभोः ॥ ७२ ॥ सापि ज्ञानं विना नास्ति, मनः स्थैर्य विना तथा । अतो ध्यानं क्रियारूपं, सूक्ष्मं ध्येयं विचक्षणः ॥ ७३ ॥ सर्वतत्त्वानि बोध्यान, निक्षेपैर्नयकैस्तथा । ग्राह्यग्राह्यविवेकेन, धर्मशास्त्रविशारदैः ॥ ७४ ॥ सुखमात्मनि विज्ञेयं, जडेषु नास्ति किञ्चन । मृगतृष्णेव वाह्येषु, कुतो मिथ्या प्रधावसि ॥ ७५ ॥ वाह्यवृत्तिं परित्यज्य, आत्मा ध्येयो विवेकतः । नाभिहृद्भालरन्ध्रेषु, स्थानेषु ध्येयधारणा ॥ ७६ ॥ षट्चकं द्रव्यभावाभ्यां साध्यं चित्तसमाधये
"
ब्रह्मरन्ध्रे स्थितिं कृत्वा, आत्मा ध्येयः सनातनः ॥ ७७॥ व्यवहारनयेनोक्तः, समाधिस्तत्र जायते ।
शुद्धं परात्मनो ज्योति, र्भासते नात्र संशयः ॥ ७८ ॥ अनेकभव संस्कारात्, समाधिर्व्यवहारतः ।
For Private And Personal Use Only