________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3
(20)
कर्मभेदविनाशाच्च, सोऽहं भव्यशिरोमणिः ॥ ५२ ॥
"
अहो जीवः परात्माऽहं सत्तातः सम्प्रति स्मृतः । उत्थितो व्यक्तिसिद्ध्यर्थ, साधयिष्ये परात्मताम् ॥ ५३ ॥ आत्मसामर्थ्यतः शीघ्रं मया किं किं न साध्यते । सर्वकार्याणि सिद्ध्यन्ति, यलेनातः समुत्सहे ॥ ५४ ॥ लक्ष्यसाधकबुद्ध्या वै, परात्मानं स्मराम्यहम् । स्वप्नवद् बाह्यभावेषु, दृष्टिर्देया न कुत्रचित् ॥ ५५ ॥ अविच्छिन्ना विधातव्या, नवधा भक्तिरात्मनः । आत्मभक्तिप्रतापेन, जीवा यान्ति परं पदम् ॥ ५६ ॥ आत्मवत्सर्वजीत्रेषु, दृष्टिः स्वोन्नतिकारिका । भावशान्तिप्रकाशार्थं, देया भक्तिपरायणैः ॥ ५७ ॥ लक्ष्यीकृत्य निजात्मानं, धर्म्मकार्ये प्रवर्त्तनात् । आर्तध्यानादिरहितो, भक्तियोगी शिवं व्रजेत् ॥ ५८ ॥ स्वात्मा परात्मरूपश्च दृश्यते भक्तितः स्वयम् । करोति दर्शनं जीवः, स्वस्येति प्रत्ययो ध्रुवम् ॥ ५९ ॥ स्वामिसेवकभावेन, भक्तिराद्या प्रदर्शिता । पक्कज्ञानदशायांतु, स्वामिसेवकवर्जिता ॥ ६० ॥ तत्त्वमस्यादिरूपेण, सार्वकालिकप्रत्ययाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"
परां भक्तिं समासाद्य, भक्तियोगी शिवं व्रजेत् ॥ ६१ ॥ भक्तियोगी क्रियायोगी, ज्ञानयोगी तथैवच । साम्ययोगी ध्रुवां सिद्धिं प्राप्नुयान्नात्र संशयः ॥ ६२ ॥ असङ्ख्ययोगयुक्त्त्यावै, मुक्तिः स्यान्नात्र संशयः । तत्राऽपि ज्ञानसम्यक्त्व, चारित्राणि विशेषतः ॥ ६३ ॥ स्याद्वादमुद्रया सर्वे, पदार्थाः सन्ति वस्तुतः | श्रद्धा हि तादृशी सम्यक्, दर्शनं व्यवहारतः ॥ ६४ ॥ क्षयउपशमो मिश्री, दर्शनमोहकर्मणः ।
चतुर्णां च कषायाणां तथानन्तानुवन्धिनाम् ॥ ६५ ॥
"
For Private And Personal Use Only