________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
( १८ ) साम्यमेव हि चारित्रं, सर्वदा सम्मतं स्फुटम् । फलं ज्ञानस्य साम्यं वै, सूत्रेषु तत्प्रकीर्तितम् ॥ ३९ ॥ आत्मज्ञानं विना नास्ति, समत्वं क्वापि विद्धि तत् । आत्मज्ञानाय भव्यैश्च, यतितव्यं पुनः पुनः ॥ ४० ॥ आत्मज्ञानेन भव्यात्मा, निर्मलध्यानमनुते । आत्मज्ञानफलं ध्यानं, ध्यानञ्च साम्यमेव हि ॥ ४१ ॥ ध्यानं क्रियास्वरूपञ्च, साम्यं क्रियास्वरूपकम् । तयोः किञ्चिद्विशेषोऽस्ति भासते सत्वनुभवे ॥ ४२ ॥ प्राधान्यं शुद्धवीर्यस्य, ध्याने भवति निश्चलम् । शुद्धवीर्यं क्रियारूपं, क्षयोपशमभावतः ॥ ४३ ॥ क्षयोपशमवीर्यात्मा, क्रियैव ध्यानमात्मनः । आत्मधर्मस्थिभावे, ध्यानं हि ज्ञानसङ्गकृत् ॥ ४४ ॥ अतो ज्ञानक्रियाभ्याञ्च, मुक्तिः सूत्रे प्रदर्शिता । एकान्ततोहि मिथ्यात्व मेकान्तवाददर्शिनाम् ॥ ४५ ॥ सप्तभंगीनयोपेतं सम्यकस्याद्वाददर्शनम् । आत्मज्ञानाय विज्ञेयं, भव्यजिज्ञासुभिः शुभम् ॥ ४६ ॥ आत्मधर्म समालम्ब्य यतितव्यं मुमुक्षुभिः । आत्मा हि ज्ञापनीयश्च भव्यानां शर्महेतवे ॥ ४७ ॥ आत्मज्ञानोपदेशेन, भव्यानामुपकारकाः । तीर्थकृत्त्वं समासाद्य, यान्ति मुक्तिगृहं शुभम् ॥ ४८ ॥ सर्वपरोपकारेषु, देशनाया उपक्रिया । प्राप्नोति श्रेष्ठतां सत्यां, सतामेतादृशी स्थितिः ॥ ४९ ॥ द्रव्यपरोपकारेण, साध्या भावोपकारता । निष्कामवृत्तितो भव्यैः साध्यं लक्ष्यं सुखास्पदम् ॥ ५० ॥ दत्तलक्ष्योपयोगेन, वर्त्तितव्यं मुमुक्षुणा ।
"
2
,
Acharya Shri Kailassagarsuri Gyanmandir
आविर्भावः सुखाब्धेस्तु, जीवः परात्मतां व्रजेत् ॥ ५१ ॥ यादृक् सिद्धस्वरूपं मे, तादृग् भेदस्तु कर्मणः ।
For Private And Personal Use Only